________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
निरसनाय पर्याप्तं पूर्ण निदर्शनम् ॥ १३॥ चतुर्दशेति श्लोके पर्याप्तं तनिदर्शनमित्यनुषज्यते । उत्तरश्लोकेनैकवाक्यत्वे शरपदद्वयवैयर्थ्यम् ॥ १४ ॥ ॥ १५ ॥ इत इति । अथ खरवधानन्तरम् । नादं शब्दम् । नदन् कुर्वन् । सः प्रसिद्धः कबन्धः ।।१६-२०॥ कुम्भकर्णमित्यादि । नावबुध्यते, राम
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरनिशिखोपमैः ॥१४॥ खरश्च निहतः सङ्ख्ये दूषणत्रिशिरास्तथा। शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् ॥ १५॥ हतो योजनबाहुश्च कबन्धो रुधिराशनः । क्रोधान्नादं नदन सोऽथ पर्याप्तं तन्निदर्शनम् ॥१६॥ जघान बलिनं रामः सहस्रनयनात्मजम् । वालिन मेरुसङ्काशं पर्याप्तं तन्निदर्शनम् ॥ १७ ॥ ऋष्यमूके वसन शैले दीनो मनमनोरथः। सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्श नम् ॥ १८ ॥ धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् । युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ॥ १९ ॥ विभीषणवचः कुर्याद्यदि स्म धनदानुजः । श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ॥२०॥ कुम्भकर्ण हतं श्रुत्वा राघवेण महाबलम् । अतिकायं च दुर्धर्ष लक्ष्मणेन हतं पुनः । प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ॥२१॥ मम पुत्रो मम भ्राता मम भर्ता रणे हतः । इत्येवं श्रूयते शब्दो राक्षसानां कुलेकुले ॥ २२॥ रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः । रणे रामेण शूरेण राक्षसाश्च पदातयः ॥ २३ ॥ रुद्रो वा यदि वा विष्णुमहेन्द्रो वा शतक्रतुः । हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ॥ २४ ॥ हतप्रवीरा रामेण निराशा जीविते वयम् ।
अपश्यन्तो भयस्यान्तमनाथा विलपामहे ॥२५॥ प्रभावमिति शेषः ॥ २१॥ ममेति । कुलेकुले गृहेगृहे । इदमपि राक्षसीवाक्यमेव ॥ २२-२४ ॥ हतप्रवीरा इति । वयमित्येतदपेक्षया अपश्यन्त इति सर्वातिशायित्वपरिज्ञानाय निरपेक्षं निदर्शनमित्यर्थः ।। १३-२०॥ कुम्भकर्णमित्यादि सार्थम् । रावणो नावबुध्यते, रामपराक्रममिति शेषः ॥ २१ ॥ कुलेकुले रहेगृहे ॥ २२-२४॥ अपश्यन्तः अपश्यन्त्यः ॥ २५ ॥ २६ ॥
For Private And Personal Use Only