SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चतुरङ्गबलानि एकेन रामेण दिवसस्याष्टमे भागे पादोनपटिकाचतुष्टये निहतानीत्यन्वयः॥३१-३४॥ हतैरिति । हतगजाधुपलक्षितं सुमहात्मनोरामस्य | तद्रणाजिरं रुदस्य आक्रीडं क्रीडास्थानं श्मशानमिव बभूव । आर्ष नपुंसकत्वम् । “अचिरेण पुरी लङ्का श्मशानसदृशी भवेत्" इति पूर्वोक्तः ॥३५॥ ३६ ॥ अब्रवीच्चेत्यादिश्लोकद्वयमेकान्वयम् । प्रत्यनन्तरं समीपस्थम् । क्षणेनानेन रक्ष प्रतिक्षेपजनितां मायाविवशङ्का वारयति-एतदखबलमिति । हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् । आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः ॥ ३५॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। साधु साध्विति रामस्य तत् कर्म समपूजयन् ॥ ३६ ॥ अब्रवीच्च तदा रामः सुग्रीवं प्रत्य नन्तरम् । विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ॥३७॥ जाम्बवन्तं हरिश्रेष्ठं मैन्दं दिविदमेव च । एतदखबलं दिव्यं मम वा त्र्यम्बकस्य वा ॥३८॥ निहत्य ता राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा । अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ॥३९॥ इत्यार्षे श्रीरामायणे श्रीमद्युद्धकाण्डे चतुर्नवतितमः सर्गः ॥९४॥ तानि तानि सहस्राणि सारोहाणां च वाजिनाम् । स्थानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥ १॥ राक्षसानां सहस्राणि गदापरिषयोधिनाम् । काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥२॥ निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः । रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥ ३॥ दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः। राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः॥४॥ अत्रान्ते इतिकरणं द्रष्टव्यम् । अत्रबलम् अखग्रयोगशक्तिः । न त्वमपि, गान्धर्वेण च गान्धर्वमिति रावणादेरपि तत्संभवकथनात् । त्र्यम्बकस्य वा संहारकाले, अस्तीति शेषः ॥ ३७ ॥ ३८॥ निहत्येति । संस्तूयत इति वर्तमाननिदेशेन स्तुतेरद्याप्यविच्छिन्नत्वमुच्यते ॥ ३९ ॥ इति श्रीगोविन्द राजविरचिते श्रीरामायणभूपणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्नवतितमः सर्गः ॥ ९॥ अथ राक्षसीनां प्रलापः-तानि तानीत्यादिचतुःश्लोकी । वाजिनामित्येतद्नानामप्युपलक्षणम् । सहस्रशः सहस्राणि । राक्षसी राक्षसस्त्रियः, समागम्य मुहूर्तद्वयेन हतानीत्यर्थः । चतुर्दश्यां मूलबलबधः ॥ ३१-३९ ॥ इति श्रीमहेश्वरतीर्थ युद्धकाण्डव्याख्यायां चतुर्नवतितमः सर्गः ॥९४॥१-३॥ दृष्ट्वेति । हतशेषाः For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy