________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा.रा.भ. २१
टो..का.
स.१८
वानरोपमध्ये ॥ १६५ ॥ प्रबुद्धपद्मप्रतिमेरिति । प्रतिमाशब्दोऽत्र रूपवचनः, नतु सदृशवचनः इवशब्दप्रयोगात्। इष्टभागिनं जयरूपेटभाजम् ॥१६६॥ पराजितश्रमं त्यक्तश्रमम् । अब समें अधिकाः केचन श्लोकाः क्वापि क्वापि दृश्यन्ते ते न व्याख्याताः । अस्मिन्समें सार्धषट्पष्टयुत्तरशतश्लोकाः ॥ १६७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नकिरीयाख्याने युद्धकाण्डव्याख्याने सप्तपष्टितमः सर्गः ॥१७॥
प्रहर्षमीयुर्वहवस्तु वानराः प्रबुद्धपद्मप्रतिमेरिवाननैः। अपूजयन् राधवमिष्टभागिनं हते रिपो मीमबले दुरासदे ॥ १६६ ॥ स कुम्भकर्ण सुरसङ्मर्दनं महत्सु युद्धेषु पराजितश्रमम् । ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः॥१६७॥ इत्याचे श्रीरामायणेवाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तषष्टितमःसर्गः॥६७॥ कुम्भकर्ण हतं दृष्ट्वा राघवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥१॥राजन स कालसङ्काशः संयुक्तः कालकर्मणा । विद्राव्य वानरी सेनां भक्षयित्वा च वानरान् ॥२॥ प्रतपित्वा मुहूर्तं च प्रशान्तो राम र तेजसा । कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ ३॥ निकृत्तकण्ठोरुभुजो विक्षरन रुधिरं बहु । रुद्धा दारं शरी रेण लङ्कायाः पर्वतोपमः ॥ ४ ॥ कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः । लगण्डभूतो विकृतो दावदग्ध इव
द्रुमः ॥५॥ तं श्रुत्वा निहतं सङ्घये कुम्भकर्ण महाबलम् । रावणः शोकसन्तप्तो मुमोह चपपात च ॥६॥ कुम्भकर्णवधश्रवणेन रावणस्य प्रलापः कुम्भकर्णमित्यादि । अब राणायेत्यत्र यकारो गायच्या अगोदशाक्षरम् । सप्तदशसहस्रलोका गताः ॥३॥ कालकर्मणा कालस्य मृत्योः कर्मणा, मरणरूपक्रिययेति यावत् यद्वा काले कर्मणा कालकमणा, परिपक्वकर्मणेत्यर्थः ॥२॥ प्रतपित्वा पराकम्प, एतदारभ्य धोकत्रयमेकाम्वयम् । अर्धप्रविष्टेन अर्धेन कवन्धमात्रेण प्रविष्टेन कायेन समुद्रं रुदा । शरीरेण उत्तमाङ्गेन द्वारं रुहालगण्ड प्रबुद्धपद्मप्रतिमरित्यत्र पतिमाशब्दो रूपवाचका, अन्यथा दवशब्दोऽनिरिच्येत ॥ सप्तम्यां कुम्भकर्णवधः ॥५६॥ १७ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायाँ युद्धकाण्डम्याल्यायो सप्तपष्टितमः सर्गः ॥ ६॥ कुम्भकर्णमिति । य इति गायञ्या अष्टादशाक्षरं कुम्भकर्ण इतमिति लोकस्थास्य चतुर्विशतितमाक्षरेण य इत्यनेन संग्रहाति ॥१॥२॥ प्रतपित्वेत्यादि। लोकत्रयमेकं वाक्यम् । पर्वतोपमा कुम्भकर्णः मुहूर्त प्रतपित्वा विक्रम्य निकृत्तकण्ठोरुभुजा विक्षरदधिरं यथा भवति तथा काकुत्स्थशरपीडिता दावदग्धो पक्ष
OURYO
For Private And Personal Use Only