SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir इत्यर्थः। रामचतुर्थभागोद्धरणेऽप्यशक्तः कथं रामेण योद्धं शक्नोतीति भावः। अयोध्याकाण्डे पञ्चपञ्चाशे-“सीतामादाय गच्छ त्वमग्रतो भरताग्रज" इति वचनं बहुव्रीह्योक्तम् । भुजाभ्यामित्यनेन हिमवदादयो द्वाभ्यामेवोद्धर्तुं शक्यम् । अयं तु विंशतिभुजैरपि न शक्यत इति सूच्यते । रिपूणामप्र कम्प्योऽपीत्यनुवादात् सपरिकरेणापि रावणेन न शक्यमित्यपि सिद्धम् । कथं तर्हि हनुमतोद्धत इत्यत्राह-सङ्खये इति । दुहृदयेनॊदर्तुं शक्य इत्यर्थः । अत एव वक्ष्यति वायुसूनोः सुहृत्त्वेनेति । अनेन हिमवदादिभ्योऽपि सङ्घये पतितस्य लक्ष्मणशरीरस्य गरीयस्तोक्ता ॥ १११॥ कुतोऽस्यैतादृशी गरी यस्तेत्यत्राह-शक्त्येति । ब्राहया ब्रह्मसम्बन्धिन्या शक्त्या। स्तनान्तरे वक्षसि सौमित्रिस्ताडितः सन् विष्णोर्भागम् अंशभूतम् अचिन्त्यम् ईदृक्तया शक्त्या ब्राहयाऽपि सौमित्रिस्ताडितस्तु स्तनान्तरे। विष्णोरचिन्त्यं स्वंभागमात्मानं प्रत्यनुस्मरत् ॥ ११२॥ इयत्तया च चिन्तयितुमशक्यम् । स्वमात्मानं स्वस्वरूपम्, "स्वात्माप्येनं विगर्हते” इति तथा प्रयोगात्। स्वात्मांश इति गुरुव्यवहाराच्च । प्रत्यनुस्मरत् स्मृतवान् । स्वस्वरूपस्मरणातिरिक्तव्यापाराकरणोक्त्या स्वाभाविकमेवास्येदं गुरुत्वमित्युक्तम् । यत्तु-स्वकीयांशस्मरणेन हेतुना लक्ष्मणेन स्वशरी। रस्य गरीयस्त्वं सम्पादितमित्यनेनोक्तमिति तन, अपदार्थत्वादवाक्यार्थत्वाच्च । स्वरूपस्मरणस्य गरीयस्त्वं प्रति कारणताग्राहकप्रमाणाभावाच्च ।। यदपि-विपत्परिहारार्थ भगवन्तं स्वमूलकारणं विष्णुमस्मरदित्यर्थः इति । तदपि न स्वस्यैव विष्णुरूपत्वेन विपत्परिहारान्तराभावात् । ननु मनुष्यभावना क्रियमाणा विरुध्येत, यदि स्वतो गौरवं भजेत । अतो विष्णुस्मरणमिति चेन्न । मानसभावनाया अपि लौकिकैरज्ञातत्वेन एवमपि मनुष्यभावनाया अन(नु)पायात् । अतः अपर्यनुयोज्यवस्तुस्वभावेनैव भक्ताभक्तेषु गरीयस्तागरीयस्ते । अत एवाचिन्त्यमित्युक्तम् ॥ ११२ ॥ दादिकं भुजाभ्यामुद्धर्तुं शक्यम्, रावणस्येति शेषः । सद्ध्ये भरतानुजः उद्धर्तुमशक्य इत्यर्थः ॥ १११ ॥ इतरशरीरसाधारणस्य लक्ष्मणशरीरस्योद्धरणा शक्तित्वे हेतुमाह-शक्त्येति । ब्राल्या ब्रह्मदत्तया । ताहनानन्तरं स्वमात्मानं विष्णोस्सर्वव्यापकस्पाचित्यम् इयत्तया चिन्तितुमशक्यम् । भागमशं प्रत्यनुस्मरत तद्विपत्परिहारार्थ भगवन्तं स्वमूलकारण विष्णुमस्मरदित्यर्थः । अन्यथा सर्वश्रुतादृशस्मरणे विद्यमाने सति सर्वथाऽनुवर्तमाना मनुष्यबुद्धिर्बाध्येत । तस्यां च बाधितायां तया साध्यं रावणसंहारादिरूपं कार्य न शक्यतेत्यभिप्रायः । एतेन स्वकीयांशस्मरणेन हेतुना लक्ष्मणेन स्वशरीरस्थ गरीयस्त्वमुपातमित्युंक्तं For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy