________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शुलैरित्यादि । परमायुधैः चकैः । “चकंतु परमायुधम्" इति निघण्टुः॥१२॥ शूलपातादिकार्य दर्शयति-निरुच्छ्वासा इत्यादि । निरुच्छ्वासाः कृताः। इषुसन्धानसन्दिताः इषव एव सन्धानानि बन्धनरजवः तैः सन्दिताः संस्यूताः । स्फुरन्तः लुठन्तः । अवदारिताः भिन्नाः ॥ १३॥१४॥ वानरैरित्यादि।
तेषामन्योन्यमासाद्य सामः सुमहानभूत् । बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ १०॥ बहवो राक्षसा युद्धे बहून् वानरयूथपान् । वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ १॥ शूलैः प्रमथिताः केचित् केचिच्च परमा युधैः । परिधैराहताः केचित् केचिच्छिन्नाः परश्वधैः ॥ १२ ॥ निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले । विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः ॥१३॥ केचिदद्विधा कृताः खङ्गैःस्फुरन्तः पतिता भुवि । वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः ॥ १४ ॥ वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः । पादपैगिरिशृङ्गैश्च सम्पिष्टा वसुधातले ॥१५॥ वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् । वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ॥१६॥ आर्तस्वनं च स्वतां सिंहनादं च नर्दताम् । बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ १७ ॥ वानरा राक्षसाः ऋद्धा वीरमार्गमनुव्रताः। विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ १८॥ नरान्तकः कुम्भहनुमहानादः समुन्नतः । एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ १९॥ तेषामापततां शीघ्रं निघ्नतां चापि वानरान् । दिविदो
गिरिशृङ्गेण जघानै नरान्तकम् ॥२०॥ सम्पिष्टाः चूर्णिताः। वेमुः वमनं चक्रुः ॥१५॥१६॥ स्वनतां नर्दतामित्यत्र कुर्वतामित्यर्थः। तुमुलः निबिडितः। रक्षसां वानराणां च ॥१७॥ वानरा - इति । वीरमागै युद्धकौशलम् । विवृत्तनयनाः भ्रान्तनेत्राः । कर्माणि युद्धकर्माणि । अभीतवत् भयरहितं यथा भवति तथा ॥१८॥१९॥ तेषामिति । इयं धावतां जयैषिणा राक्षसाना खद्रादीनि अशोभन्तेति सम्बन्धः ॥७-११॥ शुलैरिति । परमायुधः चक्रे । " चक्रं तु परमायुधम् " इति निघण्टुः ॥१२॥ इषुसन्धान सन्दिताः इषव एव सन्धानानि बन्धनरजवस्तेः सन्दिताः संस्पूताः ॥ १३-१५ ॥ वजेति । वेमुः वमनं चक्रुः ॥१६-१९ ॥ तेषामिति निर्धारणे षष्ठी २०-२२॥
For Private And Personal Use Only