________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
मुखं विवर्णमासीदित्यर्थः ॥३९॥ सूतस्य सूतजातस्य । हयसादिनः हयप्रस्थापकस्य । प्रतोदः तोत्रम् । यद्वा मूतस्य सूतकुलोत्पन्नस्य, अभ्यस्तप्रतोद धारणस्यापीत्यर्थः । हयसादिनः अश्वगतिशिक्षकस्य ॥४०॥ वसुदुर्लभा अष्टवसुदुर्लभा। भास्वरा वसुदुर्लभेति पाठः । निर्याणश्रीः निर्गमकालिकश्रीः।
सारथेबहुशश्चास्य सङ्घाममवगाहतः । प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः ॥४०॥ निर्याण श्रीश्च याऽस्यासी भास्वरा वसुदुर्लभा । सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥४॥ प्रहस्तं त्वभिनियन्तिं प्रख्यातबल पौरुषम् । युधि नानाप्रहरणा कपिसेनाऽभ्यवर्तत ॥ ४२ ॥ अथ घोषः सुतुमुलो हरीणां समजायत । वृक्षानारु जतां चैव गुर्वीरागृहता शिलाः ॥४३॥ नदतां राक्षसानां च वानराणां च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षो गणवनौकसाम् ॥४४॥ वेगितानां समर्थानामन्योन्यवधकांक्षिणाम् । परस्परं चाह्वयतां निनादः श्रूयते महान् ॥४५॥ ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः । विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः
शलभो विभावसुम् ॥ ४६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तपञ्चाशः सर्गः॥१७॥ शानिरुत्साहः प्रहस्तोऽभूदित्यर्थः । स्खलिताःचस्खलुः । कर्तरिक्तः॥४१॥ नानाप्रहरणा शिलावक्षादिनानाप्रहरणा ॥ १२॥ अथेति । आरुजतामा
उन्मूलयताम् । आगृहृताम् आ समन्तात् गृहृताम् ॥ ४३ ॥ नदतामिति त्रिपादश्शोकः। रक्षोगणवनोकसामित्युत्तरशेषः ॥४४॥४५॥ कपिराज वाहिनीमभिप्रतस्थे तां चमू विवेश च ॥ ४६॥ इति श्रीगोविन्दराज श्रीरामायण रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥२७॥ सारथेरिति । प्रतोद तोत्रम् । सूतस्य सूतवंशोत्पत्रस्य । हयसादिनः अश्वगतिशिक्षाविचक्षणस्य ॥४०-४३ ॥ नदतामिति । रक्षोगणवनोकसामित्यस्य निनादः श्रूयते इत्युत्तरेण सम्बन्धः ॥ ४४-४६ ॥ इति श्रीमहेश्वर तीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो युद्धकाण्डव्याख्यायो सप्तपचाशः सर्गः ॥ ५७ ॥
स-मूतस्य ताश्यस्य । यसादिनः हयामश्वान् सादयति गमयति यथेष्टमिति स तथा । ताशस्थापि सारथेः हस्तात् प्रतोदः तोत्रम् । यपतत् पपात । पम् अनमयास्तीति मावर्षे कारः | "म यम्" इति हि श्रुतिः । सारेण अरसहितेन चोण धिः सारथिः तस्येति वा । हरेवानुबन्धनिमिरी: आदिभिः राक्षसः सहितः स तथा तस्य सूतस्य सारधेः । " आदिनो राक्षसाः प्रोता. " इति भागवततात्पर्यात् । मूतः सुषु अतः प्रतोदो यस्येति । सुदूर्भमा उत्तरत्रानेवमागमनात् ॥ ४०॥ विजयाय दुर्मतिः अपशकुनरिव गतभूतैः स्वीयेईष्टेः श्रुतैरपि विजयनमोऽस्खास्तीति दुर्मतिरिति मन्तव्यम् ॥ ४६॥
For Private And Personal Use Only