SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir 布希尔希金金金金金金金金金 होमशीलान् ॥ १५॥कूट युद्गरपाणीन् कूटो नामायस्कारकूटसदृश आयुधविशेषः । “कूटोऽस्त्री पुञ्जमायाद्रिशृङ्गायोपनवेश्मसु । छले बाणान्तरे दम्भ भग्नशृङ्गवृषे तु ना ॥" इति शब्दरत्नाकरे । मुद्गरः दुघणः । “ मुद्गरोद्रुघणो घनः" इति वैजयन्ती ॥ १६॥ करालान् भीमान् । “करालो दन्नुरे तुङ्गे विशाले विकृतेऽपि च " इति भागरिः । भुनवकान् कुटिलवकान् । “आविद्धं कुटिलं भुग्नम्" इत्यमरः । विकटान् विषमाङ्गान् । शतनी शतशः कूटमुद्रपाणीश्च दण्डायुधधरानपि । एकाक्षानेककर्णाश्च लम्बोदरपयोधरान् ॥ १६ ॥ करालान् भुनवांश्च विकटान वामनांस्तथा। धन्विनः खगिनश्चैव शतघ्नीमुसलायुधान् ॥ १७ ॥ परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्व लान् । नातिस्थूलानातिकृशान्नातिदीर्घातिहस्वकान् ॥ १८ ॥ नातिगौरान्नातिकृष्णानातिकुब्जानवामनान् । विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान ॥ १९ ॥ शक्तिवृक्षायुधांश्चय पट्टिशाशनिधारिणः ॥२॥ क्षेपणीपाशहस्तांश्च ददश स महाकपिः । स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥२१॥ नानावेषसमायुक्तान् यथास्वैरगतान् बहून् । तीक्ष्णशूलधरांश्चत्र वव्रिणश्च महाबलान् ॥ २२ ॥ शत साहस्रमव्यग्रमारक्षं मध्यमं कपिः । रक्षोधिपतिनिर्दिष्टं ददान्तःपुराग्रतः ॥ २३ ॥ अयोगदा । "अयःकण्टकसभ्छन्ना शतघ्री परिकीर्तिता" इति वैजयन्ती । मुसलम् जायतोऽरनिप्रमाणको दण्डः । " मुगलं वापसो दण्डो धार्योऽरनि प्रमाणकः" इति शब्दरत्नाकरे ।। १७ ॥ परिषः दण्डविशेषः। नातिदीपांतिहस्वकानित्यत्र हकारोपरि ऋकारोबारणं वृत्तभट्रपरिहाराय । एवं धजिनःN इति वक्तव्ये ध्वजीनित्युक्तिश्च छन्दोभङ्गपरिहारायैव ॥ १८॥ १९॥ शक्तीत्यादि । पदिशः तीक्ष्णधारो लोहण्डः । “पहिशो यो दीर्घदण्डस्तीक्ष्ण Hधारः क्षुरोपमः" इति निघण्टुः ॥२०॥ क्षेपणी क्षेपणीयः। वेषः अलङ्कारः । यथास्वैरंगतान् यथेष्टचारिणः ॥ २१ ॥ २२ ॥ शतेति । शतसहस्रमेव शतसाहस्रम् । स्वार्थे अण । आरक्षं गुल्मम् । अन्तःपुराग्रतः अन्तनगरायतः रक्षोधिपतिनिर्दिष्टं मध्यमगुल्मभूतं रावणमूलबलं ददर्शेत्यर्थः ॥ २२॥ मारकतया अग्निकुण्डानामायुधत्वम ॥१५॥१६॥ विकटान विषमाङ्गान ॥१७-२०॥ क्षेपणी क्षेपणीयः ॥२१॥२२॥ आरक्षम आ समन्नादानीत्यारक्ष सैन्यम् । अतः For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy