SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सर्गे सार्घसप्तत्रिंशच्लोकाः ॥३१-३८॥ इति श्रीगोविन्द श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७॥रा अथेत्यादि । हे नरव्याघ्र ! तव स्नेहात्, मयीति शेषः । सौहार्दात सुहृद्भावात्, आप्तत्वादिति यावत् । अनुमान्य सम्मान्य । उत्तरं ततः परम् उत्तरं । अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः। तव स्नहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥१॥ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।यथा मामाप्नुयाच्छीघ्र हत्वा रावणमाहवे ॥२॥ यदि वामन्यसे वीर वसैकाहमारिन्दम ।कस्मि श्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥३॥ मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् । अस्य शोक विपाकस्य मुहूर्त स्यादिमोक्षणम् ॥ ४॥ गते हि त्वयि विक्रान्ते पुनरागमनाय वै । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥५॥ तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखादुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥६॥ अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यक्षेषु हरीश्वर ॥७॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हयृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ८॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने । शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥९॥ कार्य वा । पुनर्देव्याऽहमुक्त इत्यन्वयः । ससम्भ्रमः गमनत्वरान्वित इत्यर्थः ॥ ३॥२॥ शोकविपाकस्य शोकवृद्धरित्यर्थः ॥३-९ ॥ रामानु -प्राणाना माप सन्देहो मम स्यान्नात्र संशयः इत्यतः परं तवादर्शनजः शोक इति श्लोकः । अतः परम् अयं च वीर सन्देह इति श्लोकः । केचित्कोशेष्वेतच्लोकद्रयं प्रमादात्पतितम् ॥ ५-७ ॥ मानम्, समुद्रतरणायेति शेषः ॥ ३३-३८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तषष्टितमः सर्गः ॥६॥ अथेति । हे नरव्याघ्र ! तव स्नेहात, मयीति शेषः । सौहार्दात सुहृद्भावात, आतत्वादिति यावत् । अनुमान्य सम्मान्य च । उत्तरं ततः परम् उत्तरं कार्य वा पुनः पुनर्देव्या ससम्भ्रमः गमनत्वरान्वितः अहम उक्त इत्यन्वयः ॥ १॥ किमुक्तम् ? तदाह-एवमित्यादि ॥२॥ यदीत्यादिश्लोकद्वयमेकं वाक्यम् । हे वीर ! यदि वाथ मन्यसे एकाहं बस । नायता किमायातम् ! अत आह कस्मिंश्चिदिति । अरिन्दम! कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि चेत् तब सान्निद्धचादल्पभाग्याया) मम अस्य महतः शोकविपाकस्य शोकरूपस्य पापपरिणामस्य फलस्येत्यर्थः । मुहूर्त मोक्षणं स्यादिति योजना ॥३॥ ४ ॥ पुनरागमनाय प्रतीक्षमाणाया मम For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy