________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१७६॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नियते नेष्यते । वर्तमानसामीप्ये वर्तमानवत् प्रयोगः ॥ २९ ॥ ३० ॥ साऽभिवीक्ष्य दिश इति । दिगवलोकनं राक्षस्यो दृष्ट्वा रावणाय वक्ष्यन्तीति भयेन ।
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् । इम मुहूर्त दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ २७ ॥ तावुभौ नर शार्दूलौ राजपुत्रावनिन्दितौ । त्वद्दर्शनकृतोत्साही लङ्कां भस्मीकरिष्यतः ॥ २८ ॥ हत्वा च समरे रौद्र रावण सहबान्धवम् । राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ॥ २९ ॥ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते । प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ॥ ३० ॥ साऽभिवीक्ष्य दिशः सर्वा वेण्युद्रथनमुत्तमम् । मुक्त्वा वस्त्राद्ददौ मा मणिमेतं महाबल ॥ ३१ ॥ प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह । शिरसा तां प्रणम्यार्यामहमागमने त्वरे ॥ ३२ ॥ गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी । विवर्धमानं च हि मामुवाच जनकात्मजा ॥ ३३ ॥ अश्रुपूर्ण मुखी दीना वाष्पसन्दिग्धभाषिणी । ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ॥ ३४ ॥ हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ । सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ॥ ३५ ॥ यथा च स महाबाहुर्मी तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ ३६ ॥ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥ ३७ ॥ एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् । एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशल समग्राम् ॥ ३८ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥
For Private And Personal
टी.सु.का. स० ६७
वेण्यासुद्द्मथ्यत इति वेण्युग्रथनम्, वेणीधार्यमित्यर्थः । मुक्त्वा वस्त्रादिति । वस्त्राञ्चलेन ग्रथितं मर्णि मुक्त्वा ततः ददावित्यर्थः । अस्मिन् ॥१७३॥ भवती मया दृष्टा अतः परं परिशोचितुं न कालः, तब योग्य इति शेषः । चिरं लसितुं न कालो योग्य इति वा । इमं मुहूर्तम् अस्मिन्नेव मुहूर्ते इत्यर्थः॥२७-३० ॥ वेण्युद्रथितं शिरसि कतिपयकेशरचितवेण्युद्धथितम् । वस्त्रान्मुक्त्वा वस्त्रान्तमथितमुन्मुच्य ददावित्यर्थः ॥ ३१ ॥ त्वरे त्वरावान जात इत्यर्थः ॥ ३२ ॥ विवर्ध