________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
निमित्तम् । कुलानुरोधेन देहे निस्स्पृहायाः देहमपि दत्त्वा रसावहत्त्वमुच्यते ॥१॥ राजेत्यादि । वितरणविक्रमादिजनितत्वेन कीर्तियशसोर्भेदोऽव गन्तव्यः ॥२-४ ॥ पार्थिवव्यञ्जनः राजलक्षणैः ॥५-७॥ तस्य पितुर्वचनादनं प्रवाजितः गतः । स्वाथै णिच ॥८॥ मृगयां परिधावता मृगयामुद्दिश्य
राजा दशरथो नाम रथकुञ्जरवाजिमान् । पुण्यशीलो महाकीर्तिजुरासीन्महायशाः॥२॥राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः। चक्रवर्तिकुले जातः पुरन्दरसमो बले॥३॥अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यश्चेक्ष्वाकु वंशस्य लक्ष्मीवॉल्लक्ष्मिवर्धनः ॥४॥ पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥५॥ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥६॥ रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ॥७॥ तस्य सत्याभि सन्धस्य वृद्धस्य वचनात् पितुः । सभार्यः सह च भ्रात्रा वीरः प्रवाजितो वनम् ॥ ८॥ तेन तत्र महारण्ये मृगयां परिधावता । राक्षसा निहताः शूरा बहवः कामरूपिणः ॥९॥ जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ । ततस्त्व मर्षापहृता जानकी रावणेन तु । वञ्चयित्वा वने रामं मृगरूपेण मायया ॥१०॥ स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् । आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥ ११॥ ततःस वालिनं हत्वा रामः परपुरञ्जयः। प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः॥१२॥ सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः। दिक्षु सर्वासुतां देवीं विचिन्वन्ति सहस्रशः॥१३॥अहं संपातिवचनाच्छतयोजनमायतम् । अस्या हेतोर्विशालाक्ष्याःसागरंवेगवान् प्लुतः१४ परिधावता । अनेन लीलया खरादिवधः मुच्यते ॥ ९॥ जनस्थानव, जनस्थानरक्षोवधम् । अमर्षेणापता अमापहता। मृगरूपेण मृगसौन्दर्येण प्रशस्तमृगेण वा । "प्रशंसायां रूपए " ।। १०-१४॥ निश्चित्येत्यर्थः । संश्रवे संश्रवणे मधुरम् । वैदेह्याः वैदेहीनिमित्तम् । यद्वा सम्यक् श्रूयते अस्मिन्निति संश्रवः तस्मिन् समीपदेशे, पत्रोक्तं सीतैव शृणुयान्नान्येत्यर्थः । Kal॥१-४॥ पार्थिवेति । पार्थिवव्यञ्जनैः पार्थिवलक्षणैः ॥५-७॥ तस्येति । सत्याभिसन्धस्य सत्यसङ्कल्पस्य ॥८॥९॥ मृगरूपेण प्रशस्तम्गमण ।। १०-१४ ॥
For Private And Personal