________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
विनाशसूचकमुक्त्वा विभीषणस्य राज्यप्राप्तिसूचकमाह-एकस्तत्र मया दृष्टः श्वेतच्छर इत्यादिना ॥ ३१-३२ ॥ वैहायसं विमानम् ॥ ३३-३८ ॥ अपगच्छत अपसरत । नश्यध्वम् अदर्शनं प्राप्नुत । आत्मनेपदमार्षम् । सीतामाप सीतामचिरेणाप्स्यतीत्यर्थः। सर्वैः राक्षसैस्साघम् घातयेत्, व इति ।
आरुह्य शैलसङ्काशं मेघस्तनितनिःस्वनम् । चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः । चतुर्भिः सचिवैः सार्धं वैहायस मुपस्थितः ॥ ३३॥ समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः । पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम ॥३४॥ लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा। सागरे पतिता दृष्टा भनगोपुरतोरणा ॥ ३५॥ लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता। दग्धा रामस्य दूतेन वानरेण तरस्विना ॥ ३६ ॥ पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महा स्वनाः।लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ॥ ३७॥ कुम्भकर्णादयश्चमे सर्वे राक्षसपुङ्गवाः । रक्तं निव सनं गृह्य प्रविष्टा गोमयदे ॥ ३८॥ अपगच्छत नश्यध्वं सीतामाप स राघवः । घातयेत् परमामर्षी सर्वेः सार्धं हि राक्षसः ॥ ३९॥ प्रियां बहुमतां भार्या वनवासमनुव्रताम् । भत्सितां तर्जितां वापि नानुमंस्यति राघवः ॥४०॥ तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् । अभियाचाम वैदेहीमेतद्धि मम रोचते ॥४१॥ यस्यामेवं विधः स्वप्नो दुःखितायां प्रदृश्यते । सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥ ४२ ॥ भसितामपि याचध्वं राक्षस्यः किं विवक्षया। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥४३॥ प्रणिपातप्रसन्ना हि मैथिली जनका
त्मजा। अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥४४॥ सिद्धम् । अपगच्छत नश्यध्वमित्युक्तेः रावणमित्यध्याहारो वा ॥ ३९ ॥ नानुमंस्यति न सहिष्यत इत्यर्थः ॥४०॥ अभियाचाम, अभयमिति शेषः॥४१॥४२॥ कि विवक्षया अस्माभिस्तदा भत्सिता कथं प्रसन्ना भविष्यतीति वक्तुमिच्छया किम् ? शङ्का न कर्तव्येत्यर्थः ॥४३॥ कुता वैहायसं खेचरत्वम् ॥ ३३--३६ ॥ भस्मरूक्षायां भस्मना रूक्षायाम् ॥ ३७--३९॥ भसितां युष्मत्कृतभर्त्सनादिमतीम् । नानुमंस्यति नानुमस्यते न क्षमिष्यते, अतस्तत्कींवों घातयेदिति भावः ॥ ४० ॥ तदलमिति । अभियाचाम, अभयमिति शेषः ॥ ४१ ॥ ४२ ॥ भर्तिसतामिति । याचध्वम्, अभयमिति शेषः ।
For Private And Personal