________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
जितात्मानः जितान्तःकरणाः। महाभागाः महाभाग्याः॥४९॥ प्रियान्न संभवेहुःखं किंतु सुखमेव भवेदित्यर्थः । प्रियात् अनुकूलवस्तुनः। अप्रियात् प्रतिकूलवस्तुनः । अधिकं भयम् अधिकं दुःखम् । ताभ्यां प्रियाप्रियाभ्याम् । नमस्तेषां त एव सर्वोत्तमा इत्यर्थः ॥५०॥ साऽइमिति । साई
प्रियान्न संभवेढुःखमप्रियादधिकं भयम् । ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ ५० ॥ साऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना। प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्॥५१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्रिंशःसर्गः ॥२६॥
इत्युक्ताः सीतया घोराराक्षस्यः क्रोधमूञ्छिताः।काश्चिज्जग्मुस्तदाख्यातुंरावणस्य तरस्विनः॥१॥ ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः। पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥२॥ अद्येदानीं तवानार्ये सीते पापविनिश्चये। राक्षस्यो भक्षयिष्यन्ति मांसमतद्यथासुखम् ॥३॥
सीतां ताभिरनार्याभिष्वा सन्तर्जितां तदा। राक्षसी त्रिजटा वृद्धाशयाना वाक्यमब्रवीत् ॥४॥ तद्विलक्षणा अहम्, केवलप्रियपरेत्यर्थः। प्रियेण त्यक्ता आप्रियं प्राप्ता,प्राणांस्त्यक्ष्यामीत्यर्थः॥५१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पड्विंशः सर्गः ॥२६॥ । इत्युक्ता इत्यादि । तत् मरणाध्यवसायम् ॥१॥ तत इत्यादि । एकार्थे पूर्वोक्तवचनेरेकाभिधेयम् । अनार्थम् अनर्थफलकम् । एकाक्ष्यादयः पूर्वो। तार्थमेव परुषवचनं पुनरवन्नित्यर्थः ॥ २॥ अद्य आस्मिन् दिने । इदानीम् अस्मिन् क्षणे । भक्षयिष्यन्तीत्यनुवन्निति पूर्वेण सम्बन्धः ॥ ३॥ सीता । प्रियादभिमताद्वस्तुनः दुःखं न सम्भवेत् किन्तु सुखं भवेत् । अप्रियादनभिमनाद्वस्तुनः । अधिकं भयं भवेत् ताभ्या प्रियाप्रियरूपविषयजन्यसुखभयाभ्यामित्यर्थः । ॥५०॥ ५१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पर्दिशः सर्गः ॥२६॥ | इत्युक्ता इति । तत मरणाध्यवसायम् ॥ १॥ एकार्थम् एकाभिधेयम् । अनर्थम् अनर्थफलकम् ॥२॥ अचेदानीम्। अद्य अस्मिन दिने । इदानीमस्मिन् क्षणे । अद्य त्यस्य वास्तवार्थस्तु-हे सीते ! पापनिश्चये अनायें अपराधे सति राक्षस्यस्तव मांसं भक्षयिष्यन्तीति काश्चन राक्षस्पः परुषमनुवन्निति पूर्वेण सम्बन्धः ॥ ३-५॥
For Private And Personal