________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyanmandir
www.kobatirth.org
पौर्णमासीप्रपूर्वदिनत्वेन वसन्तादावित्युक्तम् ॥ २॥ सालान् सर्जकान् । भव्यान् शुभानित्यशोकविशेषणम् । यद्वा भवं रुद्धमईन्तीति भव्यान् रुद्ध प्रियपुष्पान् वृक्षविशेषान् । उद्दालकान् बहुवारकान् । नागवृक्षान् नागकेसरवृक्षान् । कपिमुखान् मर्कटकान् ॥ ३ ॥४॥ स प्रविश्येत्यादि ।
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् । उद्दालकानागवृक्षांश्थूतान कपिमुखानपि ॥ ३ ॥ अथाम्रवण संछन्नां लताशतसमावृताम् ।ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥४॥ स प्रविश्य विचित्रां तां विहगै रभिनादिताम् । राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ ५॥ विहगैर्मृगसबैश्च विचित्र चित्रकाननाम् । उदितादित्यसङ्काशां ददर्श हनुमान कपिः॥६॥ वृतां नानाविधैवृक्षः पुष्पोपगफलोपगैः। कौकिलै राजश्व मत्तैर्नित्यनिषेविताम् ॥७॥प्रहृष्टमनुजे काले मृगपक्षिसमाकुले । मत्तबहिणसंघुष्टां नानादिजगणायुताम् ॥८॥ मागेमाणो वरारोहा राजपुत्रीमनिन्दिताम् । सुखप्रसुप्तान विहगान बोधयामास वानरः ॥९॥ उत्पतद्भिर्दिजगणैः पक्षैः सालाः समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥१०॥ पुष्पावकीर्णः शुशुभे हनुमान मारुता त्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः॥११॥ दिशः सर्वाः प्रधावन्तं वृक्षपण्डगतं कपिम् । दृष्ट्वा
सर्वाणि भूतानि वसन्त इति मेनिरे ॥ १२॥ काञ्चनैः काञ्चनमयरिख स्थितेः ॥५॥ चित्रकानां चित्रावान्तवनाम्, चम्पकवनं चूतवनमित्येवंविधवनवतीम् ॥ ६॥ पुष्पाण्युपगच्छन्तीतिर पुष्पोपगाः पुष्पसंपन्नाःतैः, फलोपगैः फलसंपन्नेः॥७॥ प्रहृष्टमनुजे काले वसन्ते । वसन्तस्य प्रचुरमन्मथत्वात् प्रहृष्टमनुजत्वम् ॥ ८॥९॥ रासालाः वृक्षाः। “अनोकहः कुटः सालः " इत्यमरः । पुष्पवृष्टयः पुष्पवृष्टीः ॥१०-११॥ प्राकारं वनमाकारम, अबप्लुतः प्राप्तः ॥१-३॥ अथेति । आम्रवर्ण चूनवनम् ॥ ४॥५॥ चित्रकानना चित्रदुमपण्डाम् ॥ ६॥ पुष्पोपगफलोपगैः पुष्पाण्युप गच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः । एवं फलोपगाः॥७॥ प्रष्टमनुजे प्रष्टजने काले, वसन्तादावित्यर्थः॥८॥९॥ पुण्यवृष्टयः पुष्पवृष्टीः ॥ १०-१४॥
For Private And Personal