________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इत्युक्तरीत्या अभिमतलाभत्वरया सर्वान्नमस्करोति नमोऽस्त्विति ॥ ५९ ॥ स तेभ्यस्त्वित्यादिश्लोकद्वयमेकान्वयम् | नमस्कृत्यालोकनरूपकिया भेदात्तच्छब्दद्वयम् । नमस्कृत्य अशोकवनिकां प्रति उद्दिश्य सर्वा दिशस्समालोक्य अशोकवनिकां परिच्छेत्तुं तस्यास्सर्वा दिशो दृष्ट्वा तां स मनसा
स तेभ्यस्तु नमस्कृत्य सुग्रीवाय च मारुतिः । दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति ॥ ६० ॥ स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् । उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१ ॥ ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला । अशोकवनिका चिन्त्या सर्वसंस्कार संस्कृता ॥ ६२ ॥ रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् । भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ॥ ६३ ॥ संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च । सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४ ॥
चा उत्तरं चिन्तयामासेति योजना । अशोकशब्दः संक्षेपे व्याख्यातः ॥ ६० ॥ ६१ ॥ ध्रुवमिति । रक्षोबहुला रक्षकराक्षसबहुला । वनाकुला जला वृता द्रुमपण्डमण्डिता वा । सर्वसंस्कारैः कर्पणतृणनिरसनादिभिः संस्कृता कृतातिशयाधाना अशोकवनिका ध्रुवं चिन्त्या भविष्यति । अवश्यमन्वेष णीया भवेदित्यर्थः ॥ ६२ ॥ रक्षिण इति । अत्र अशोकवनिकायाम् । विहिताः नियुक्ताः । सर्वात्मा सर्वमाप्नोतीति सर्वात्मा वायुः । सोपि नातिक्षोभं प्रवाति । अतिकम्पनपूर्वकं नात्र सञ्चरतीत्यर्थः ॥ ६३ ॥ एवंभूतप्रदेशे भवतः कथं गमनमित्याशङ्कयाह-संक्षिप्त इति । मया अयमात्मा देहः । रामार्थे | रामप्रयोजनसिद्धयर्थम् । रावणस्य चार्थे रावणादृश्यत्वार्थे च संक्षिप्तः अल्पीकृतः । एवं मया कार्यानुकूलो यत्नः कृतः, कार्यसिद्धिं तु देवा विधास्यन्ती
व्याकुलेन्द्रियः ॥ ५८ ॥ ५९ ॥ सुग्रीवाय चेत्यत्र नमश्चक्र इति करोतेर्विपरिणामः । अशोकवनिकां गतः, मनसेति शेषः । अशोकवनिकां प्रतीति पाठे-समालोक | यदित्यालोकयत्तेर्विपरिणामः । अन्यथा तच्छन्दोऽतिरिच्यते ॥ ६० ॥ मनसा गत्वा, गन्तुं निश्चित्येत्यर्थः । उत्तरम् उत्तरकर्तव्यम् । वनाकुला काननावृता ॥ ६१ ॥ ॥ ६२ ॥ रक्षिण इति । अत्र अशोकवनिकायाम् । निहिताः नियुक्ताः सर्वात्मा वायुः ॥ ६३ ॥ संक्षिप्त इति । रामायें रावणस्य चेति गृहस्था सीतादर्शनस्या काङ्गितत्वात रावणदर्शन परिहारार्थत्वाच्चोभयार्थत्वम् ॥ ६४-६६ ॥
For Private And Personal