________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चा.रा.भ. तानि त्वाचार्यप्राप्तिहेतवः" इति । यद्रा पदं व्यवसायमन्वेष्टुं कस्य चतनस्य भगवत्प्राप्तावध्यवसाय इत्यन्वेष्टुम् इयेष। “ पदं व्यवसितत्राणस्थानटी .सु.का.
लक्ष्माधिवस्तुषु " इत्यमरः । अत्रैकादशसहस्रश्लोका गताः। द्वादशसहस्रस्यादिमोऽयं श्लोकः । अत्र गायत्र्याः द्वादशमक्षरं प्रयुक्तं तदव ॥१॥
लोकनीयं विद्वद्भिः॥१॥ रामानु०-श्रीमत्सुन्दरकाण्डे व्याख्येयानि व्याक्रियन्ते । पूर्नस्मिन्काण्डे मनसा गमनं कृतमित्युक्तम् इदानी कायेनापि गमनं कर्तुमच्छदित्याशपेनाह-तता इत्यादि । अत्र गन्तुमिति पदमध्याहर्तव्यम् । शत्रुकर्शनो हनुमान् रावणनीतायाः सीतायाः पदं निवासस्थानम् अन्चेष्टुं चारणाचरिते पथि वर्मनि गन्नुमियेषेति योजना ॥ १॥
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः।समुदाशीरोग्रीवो गवां पतिरिवाऽऽबभौ ॥२॥अथ वैडूर्यवर्णेषु शालेषु महाबलः। धीरस्सलिलकल्पेषु विचचार यथासुखम् ॥३॥ द्विजान वित्रासयन् धीमानुरसा पादपान हरन् । मृगांश्च सुबहून्निन्नन प्रवृद्ध इव केसरी ॥ ४ ॥ नीललोहितमाञ्जिष्ठपत्रवर्णस्सितासितैः । स्वभावविहितश्चित्रैर्धातुभिः समलंकृतम् ॥ ५॥ कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः। यक्षकिन्नरगन्धर्वर्दवकल्पैश्च पन्नगैः ॥६॥ स तस्य गिरिवर्यस्य तले नागवरायुते । तिष्ठन् कपिवरस्तत्र हदे नाग इवाबभौ ॥ ७॥ दुष्करमिति । निष्प्रतिद्वन्द्वं यथा भवति तथा दुष्करं चिकीर्षन् समुदयशिरोग्रीवः समुन्नतशिरोग्रीवः गवां पतिः वृषभः ॥२॥ रामानु दुष्करमिति । निष्प्रतिद्वन्दं प्रतिद्वन्द्वानिष्कान्तम्, प्रतिबन्धकरहितमित्यर्थः ॥ २ ॥ अथेति । शादलानां सलिलकल्पत्वं बैहर्यवर्णतया ॥३॥ रामानु-अयेति । वैडूर्यवर्णषु हस्तित्वसंवलित
शौक्लयविशिष्टतया बैडूर्यवर्णत्वं शावलानाम्, सलिलकल्पत्वं शैत्यमार्दवादिना ॥३॥ द्विजानिति । केसरीव बभाविति शेषः॥४॥रामानु -दिजानिति । केसरीव विचचारेति Mपूर्वणान्वयः॥ ४ ॥ नीलेति, अत्र यच्छब्दोऽध्याहार्यः । यदेवंविघं तलं तत्र तिष्ठन्नित्यन्वयः । पत्रवर्णैः पत्रश्यामैः। "पलाशो हरितो हरित" इति हलायुधः।)
सितासितेः कल्माषैः । स्वभावविहितैः स्वतस्सिदैः ॥५-७॥ दुष्करमिति । निष्प्रतिद्वन्द्वं प्रतिद्वन्द्वानिष्क्रान्तम, प्रतिवन्धकरहितमित्यर्थः । कर्म समुद्रलङ्घनकर्म । समुदप्रशिरोग्रीवः समुदये शिरोग्रीवे यस्य स तथोक्तः, अत ॥१॥ एव गर्वा पतिः वृषभ इवावी ॥ २ ॥ अथेति । वैडूर्यवर्णेषु मरकतच्छायेषु सलिलकल्पेषु तद्वत शीतलेवित्यर्थः ॥ ३॥ केसरीव विचचारेति पूर्वेण सम्बन्धः ॥ नीलेत्यादिसार्घश्लोकमेकं वाक्यम् । अब यच्छन्दोऽध्याहव्यः। नीलादिपत्रसमानवणैः। मानिष्ठः पाटलः। सितासितः कल्माषवणः । स्वभावविहितः स्वभावसिद्धैः।
For Private And Personal