________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भू. ११३९॥
टी.कि.का.
वीर इति । दक्षिणामाशां येन प्रस्थापिताः स राजाऽस्तीति पूर्वणान्वयः ॥६-१२॥ रामानु०-वीरस्तस्य सखा राज्ञ इति पाठः । अगस्त्यचरितामाशा दक्षिणाम् । यमराक्षितामित्यस्य येन प्रस्थापिता वपमित्यनेन संबन्धः ॥ ६ ॥ ७ ॥ विचित्योति । बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिता इति पाठः ॥९॥ तेषामिति । अनुमान
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः। राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥६॥ अगस्त्यचारता माशां दक्षिणां यमरक्षिताम् । सहभिर्वानरैपोरैरङ्गन्दप्रमुखैर्वयम् ॥७॥रावणं सहिताः सर्वे राक्षसं कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ ८॥ विचित्य तु वयं सर्वे समयां दक्षिणां दिशम् । बुभुक्षिताः परि श्रान्ता वृक्षमूलमुपाश्रिताः॥९॥ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः । नाधिगच्छामहे पारं मनाश्चिन्ता महार्णवे ॥ १०॥ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् । लतापादपसंछन्नं तिमिरेण समावृतम् ॥ ११ ॥ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविनवैः। कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः। साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ॥१२॥ तेषामपि हि सर्वेषामनुमानमुपागतम् । गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ॥१३॥ ततो गाढं निपतिता गृह्य हस्तौ परस्परम् । इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥ १४ ॥ एतन्नः कार्यमेतेन कृत्येन वयमागताः। त्वां चैवोपगताः सर्वे परिघुना बुभुक्षिताः ॥ १५॥ आतिथ्यधर्मदत्तानि मूलानि च फलानि
च । अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः॥ १६॥ मुपागतम् जलचरसत्त्वदर्शनेन जलवुद्धिर्जातेत्यर्थः । यदा भर्तृकार्यत्वरान्विताः सन्तो गच्छामः । बिलद्वारमिति शेषः। बिलं प्रविशाम इति अनुमानम् | अङ्गीकरणम् ॥ १३॥ १४॥ परियूनाः परिक्षीणाः ॥१५-१८॥ अगस्त्यचरितामिति । दक्षिणामाशा प्रति येन प्रस्थापिता वयमिति सम्बन्धः । यमरक्षितामित्यनेन दुर्गमत्वमुक्तम् ॥ ७-१२ ॥ तेषामिति । तेषामपि हि सर्वेषाम् अनुमानमुपागतं जलक्लिन्नपक्षिनिर्गमरूपलिङ्गदर्शनाद्विलप्रवेशनमङ्गीकृतमित्यर्थः॥१३|| निपतिताः मिलिताः॥१४॥ त्वां चेति । परियूनाः परिक्षीणा॥१५॥१६॥
H स-यातिथ्यधर्मदत्तानि अतिथये हमानि । आतिश्यानि च तानि धर्मदचानि च "अतिर्यः " "क्रमादातियातिथेये अतिष्पर्धेऽत्र साधुनि" हत्यमरः ॥ १९॥
. ॥१३९॥
For Private And Personal Use Only