________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अथ प्रेषितानां वानराणां सन्नाह उच्यते पञ्चचत्वारिंशे - सर्वाश्वेत्यादि । सर्वानाहूय ततः समस्तान् सङ्घीभूतान् पुवगान् अब्रवीत् । यद्वा सम इति च्छेदः । समः सर्वत्र पक्षपातरहितः । एतत्पूर्वोक्तं एवम् अस्मदुक्तप्रकारेण इत्यत्रवीदिति सम्बन्धः ॥ १ ॥ तदिति । शलभा इति बहुलमात्रे दृष्टान्त: | ॥ २ ॥ सीताधिगमे सीताधिगमनिमित्तम् । कृतः कृतसङ्केतः॥ ३ ॥ प्रतस्थे प्रस्थातुमुयुक्तः । सन्ति सुप्रीसन्निवौ सवाहकथनात् ॥४-६॥ ततइति । सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तानब्रवीद्धयो रामकार्यार्थसिद्धये । एवमेतद्विचेतव्यं यन्मया परि कीर्तितम् ॥ १ ॥ तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः । शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥ २ ॥ रामः प्रत्र वणे तस्मिन् न्यवसत्सहलक्ष्मणः । प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ ३ ॥ उत्तरं तु दिशं रम्यां गिरि राजसमावृताम् । प्रतस्थे सहसा वीरो हरिः शतवलिस्तदा ॥ ४ ॥ पूर्वी दिशं प्रति ययौ विनतो हरियूथपः । ताराङ्गदादिसहितः प्लवगो मारुतात्मजः ॥५॥ अगस्त्यचरितामाशां दक्षिणां हरियूपथः । पश्चिमां तु भृशं घोरी सुषेणः प्लवगेश्वरः । प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ ६ ॥ ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् । कपिसेनापतीन मुख्यान् मुमोद सुखितः सुखम् ॥ ७॥ एवं सम्बोधिताः सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥ ८ ॥ आनयिष्यामहे सीतां हनिष्यामश्च रावणम् । नदन्तश्चोत्रदन्तश्च गर्जन्तश्च प्लवङ्गमाः । वेलन्तो धावमानाश्च विनदन्तो महाबलाः ॥ ९॥
मुमोद सुखितः सुखमिति । पूर्व राज्यलाभेन सुखितो राजा सुखं यथा भवति तथा मुमोद उत्तरोत्तरं सुखं प्रापेत्यर्थः ॥ ७ ॥ एवमित्यादि । स्वां स्वां दिशं स्वांशभूमण्डलम् । आनयिष्यामह इत्यत्र इतिकरणं द्रष्टव्यम् । आनयिष्यामह इति नदन्त इत्यन्वयः । नदन्तः शब्दं कुर्वन्तः । उन्नदन्तः ॥ १ ॥ वानरप्रस्थानमाह तदिति । शलभोपमानेन वानराणामसङ्कवेयत्वमुक्तम् ॥ २ ॥ सीताधिगमे इति निमित्तसप्तमी ॥ ३८ ॥ अनविष्यामह इति । अत्रेति सन् चैरिहिंसकान् । धर्व हिंसायाम् इति धातोः । यद्वा समस्तान् मातमध्ये नायातान्मच्छिक्षाविषया इति पूर्व सम्यङ् निरस्तान् । रामकार्यार्थसिद्धये कार्य सीतालामक्ष अर्थो मोक्ष तयोस्सिद्धप यम् एवञ्च नार्थानर्थतेति ज्ञेयम् ॥ १ ॥ अगस्त्यचरिताम् अगस्त्यस्य चरितन, भावे क्तः । चरितं चरणं सचारो यस्पात्सा ताम् । अगत्यचरितं चरित्रं यस्यामिति वा ॥ १ ॥ सुखितः आज्ञानुसारिभि "रमखं प्रापितः । सुखं सु शोमनानि खानि इन्द्रियाणि यस्मिन्कर्मणि तद्यथा भवति तथा मुमोद स्वयं तुतोष ॥ ७ ॥
For Private And Personal Use Only