________________
Shri Mahawan Aradhana Kendra
www.kobieth org
Acharya Shri Kalassagarsun Gyarmandie
तं च देशमतिकम्य, तस्मादेशात्परत इत्यर्थः । ऋषभसंस्थितः ऋषभतुल्पसंस्थानः ॥४०॥ मोशीर्षकं गोरोचनासदृशवर्णम् । पद्मकं पद्मदलसवर्णम् । हरिश्याम तमालदलवर्णम् । अग्निसमप्रभम् अग्निसदृशवर्णम् । एवंविधं दिव्यं चन्दनं यत्रोत्पद्यते स ऋषभः पर्वतो वर्तत इति ।
तं च देशमतिक्रम्य महानृषभसंस्थितः । सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥४०॥ गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् । दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ॥४१॥ न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन । रोहिता नाम गन्धर्वा घोरा रक्षन्ति तदनम् ॥ ४२॥ तत्र गन्धर्वपतयः पञ्च मूर्यसमप्रभाः। शैलूषो ग्रामणीः शिवः शुभ्रो बभ्रुस्तथैव च ॥४३॥रविसोमानिवपुषां निवासः पुण्यकर्मणाम् । अन्ते पृथिव्या दुर्धर्षा स्तत्र स्वर्गजितः स्थिताः ॥ ४४ ॥ ततः परं न वः सेव्यः पितृलोकः सुदारुणः । राजधानी यमस्यैषा कष्टेन तमसा वृता॥ ४६॥ एतावदेव युष्माभिर्वीरावानरपुङ्गवाः । शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥४६॥ सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते । गतिं विदित्वा वैदेह्याः सन्निवर्तितुमर्हथ ॥४७॥ यस्तु मासानिवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति । मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥४८॥ ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः। कृतापराधो बहुशो मम बन्धुभविष्यति ॥४९॥ पूर्वेणान्वयः॥ ४१-४८॥ ततः तस्मात् पुरुषात् प्रियतरो नास्ति । मम प्राणात् विशेषतः, सः प्रियतर इति शेषः ॥ १९ ॥ ऋषभस्येव संस्थितिरवस्थानं यस्पेति विग्रहः ॥ ४०॥ गोशीर्षकं गोरोचनासदृशवर्णम्, पद्मकं पद्मदलसमानवर्ण, हरि कुहुमसमानवर्ण, श्याम तमालदलनिभम् ।। अग्निसमप्रभम् अग्निसदृशवर्णम् । तञ्चन्दनं च यत्रोत्पद्यत इति सम्बन्धः ॥ ४१ ॥ तत्र काङ्क्षा न कर्तव्येत्याह-न वित्ति । तत्र हेतुमाह रोहिता इति ॥ ४२ ॥४३॥ स्वर्गजितः प्राप्तस्वर्गा इत्यर्थः ॥४४॥ कष्टेन दुष्प्रवेशेन ॥१५-४८ ॥ ततः प्रियतरो नास्ति । तस्मात्भियतरो नास्ति । मम प्राणाद्विशेषतः,
स०-गोशीर्षकं गोमेदमणिः । पयक पनरागमणिः । हरिश्यामम् इन्द्रनीलमणिः । चन्दनं चेत्येतावत्पदार्थजातं तथा अग्नि जमप्रभ माणिक्य च यत्रोत्पद्यते । तवैवेति पूर्वोकरनापेक्षयाऽस्य विशेष सूचयति ।। या गोशी_दयस्सवें चन्दनप्रभेदाः ॥ ११॥ मतुल्यविभवम्सन् युवं यथा मजति तथा विहरिष्यति । तस्मै मदर्थराज्याधिपत्यं दास्यामीत्यभिप्रायः ॥ ४८ ॥
For Private And Personal Use Only