________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१२०॥
www.kobatirth.org
तमतिक्रम्येति । हे दुर्धर्षाः ! सूर्यवान् नाम पर्वतः वर्तत इति शेषः । दुर्विगाहेनाध्वना उपलक्षितः । योजनानि चतुर्दश, पुष्पितक सूर्यवतोरन्तराल इति शेषः ॥ ३२ ॥ वराणां श्रेष्ठानामहणीति वराणि । परं ततः परं देशम् ॥ ३३-३५ ॥ अगस्त्यभवनं विशेषयति तत्र योजनेति । शरणं
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ ३१ ॥ तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः । अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ ३२ ॥ ततस्तमप्यतिक्रम्य वैद्यतो नाम पर्वतः । सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ॥ ३३ ॥ तत्र भुक्त्वा वराहणि मूलानि च फलानि च । मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥ ३४ ॥ तत्र नेत्रमनः कान्तः कुअरो नाम पर्वतः । अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ ३५ ॥ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ ३६ ॥ तत्र भोगवती नाम सर्पाणामालयः पुरी । विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ॥ ३७ ॥ रक्षिता पन्नगैर्घोरै स्तीक्ष्णदंष्ट्रैर्महाविषैः । सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः । निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ ३८ ॥ तत्र चानन्तरा देशा ये केचन सुसंवृताः ॥ ३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृहम् ॥ ३६ ॥ तत्रेत्यादि । निर्याय अगस्त्यभवनान्निर्गत्य || ३७ ॥ ३८ ॥ तत्रेति । ये अनन्तराः अव्यवहिता देशाः । ते मार्गितव्या इति शेषः॥ ३९ ॥ निस्संशयान् कृत्वा निश्चितसदसद्भावान् कृत्वा नष्टसंशयाः नरेन्द्रपत्नी मृगयध्वम् । यथा शङ्कासद्भावेपि रावणेऽपि लङ्काद्वीपेपि निश्चयेन मृग्यते, एवं शङ्का कारणवत्स्वन्पेष्वपि देशेषु निश्चयेन मृगयतेत्यर्थः ॥ २७-३१ ॥ तमतिक्रम्य लङ्काद्वीपमतिक्रम्य ॥ ३२ ॥ ३३ ॥ अगस्त्यभवनमेव विशिनष्टि-तत्रेति । तत्र कुञ्जरपर्वते। योजनविस्तारं शतयोजनं शरणं गृहमिति सम्बन्धः ॥ ३४-३७ ॥ निर्यायेति । सा भोगवती पुरी मार्गितव्या । तस्याः निर्याय निर्गत्य ॥ ३८ ॥ तत्र ये केचन सुसंवृताः अनन्तरदेशा, मार्गितव्या इति सम्बन्धः ॥ ३९ ॥
- छायाग्रहो निवार्यते वा नवा इत्यादिसंशयरहितानिति यावत् । कृत्वा नियोज्य तत्कार्यकरणाय तादृशाने नियोज्येत्यर्थः । नष्टसंज्ञयास्वन्तो मृगयध्वमित्यर्थः । एवमकरणे पूर्वोक्तच्छायाग्रह निस्तरणोपाया कथनेनासङ्गत्यापत्तिः ॥ २७ ॥
For Private And Personal Use Only
टी.कि.का. स० ४१
॥ १२०॥