________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥११७॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
VI
टी.कि.क.
पूर्वस्यामिति । पूर्वस्यां दिशि तन्निर्माणं कृतम् । पूर्वदिगवधित्वेन तालरूपः केतुः कल्पित इत्यर्थः ॥ २४-९६ ॥ तत्र उदयपर्वत ॐ कोटौ ॥ ५७ ॥ तत्र पूर्वमिति । विष्णुः त्रिविक्रमे त्रिविक्रम प्रस्तावे । तत्र सौमनसशृङ्गे । पूर्वे पदं कृत्वा द्वितीयं पदं मेरोः पश्चिमदिगवधिभूतस्य सार्वणि स० ४० || मेरोः शिखरे चकार । पूर्वपश्चिमदिगवधिभूतयोरुदयाचलसावर्णिमेव विष्णोः पदविन्यासः बलेः कृत्स्नराज्यग्रहणार्थः । भूमध्यस्थमेरौ पदविन्यासे आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् । सहस्रशिरसं देवमनन्तं नीलवासमम् ॥५२॥ त्रिशिराः काञ्चनः केतुस्ताल स्तस्य महात्मनः । स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ५३ ॥ पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ॥ ५४ ॥ ततः परं हेममयः श्रीमानुदयपर्वतः । तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ ६५ ॥ जातरूपमयी दिव्या विराजति सवेदिका । सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ॥ ५६ ॥ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५७ ॥ तत्र पूर्व पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ ५८ ॥ उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५९ ॥ तत्र वैखानसा नाम वालखिल्या महर्षयः । प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ६० ॥
| कृत्स्नाक्रमणं न लभ्येत । वस्तुतस्तु मेरोरेव शिखरे द्वितीयं पदं न्यस्तम् । मेरुशिखरस्य स्वर्गत्वात् । भूमावेकं स्वर्गे द्वितीयं तृतीयं त्रह्मलोक इति पौराणिकी गाथा ॥ ५८ ॥ उत्तरेणेति । दिवाकरः जम्बूद्वीपमुत्तरेण जम्बूद्वीपोत्तरभागे । “ एनपा द्वितीया " इति द्वितीया । परिक्रम्य महोच्छ्रयं तत् सौमनसं शिखरं, प्राप्येति शेषः । दृश्यो भवति, मेरोदक्षिणपार्श्ववर्तिनां दृइयो भवतीत्यर्थः ॥ ५९ ॥ तत्रेति । वैखानसाः ब्रह्मनखोत्पन्नाः । वालखिल्याः ब्रह्म पूर्वस्थामिति । पूर्वस्यां दिशि निर्माणं कृतमः पूर्वदिगवधित्वेन तालरूपः केतुः त्रिदशेश्वरः कल्पित इत्यर्थः॥१४- ५७॥ तत्रेति । तत्र कोट्याम् । पूर्व विष्णुः त्रिविक्रमे ॐ त्रिविक्रम प्रस्तावे । तत्र सौमनसशृङ्गे पूर्वपदं कृत्वा द्वितीयपदं मेरोः पश्चिमदिगवधिभूतस्य सावर्णिनिवासमेरुशिखरे चकारेति सम्बन्धः ॥ ५८ ॥ उत्तरेणेति । अत्र प्राप्येत्यध्याहर्तव्यम् । दिवाकरः अस्तमयानन्तरं जम्बूद्वीपमुत्तरेण परिक्रम्य महोच्छ्रयं तत्सौमनसशिखरं प्राप्य भूयिष्ठं दृइयो भवति, मेरोर्दक्षिणभागवर्तिनां
For Private And Personal Use Only
॥११७॥