________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
रामानु०- सूर्यमभ्रगणा इवेति पाठः ॥ ११ ॥ कुर्वाणा इति । न्यवेदयन् । आत्मानमिति शेषः॥ ४२ ॥ अपर इति । संयम्य वस्त्रादिकं संकुचितं कृत्वा ।। सन्नम्येति च पाठः ॥४३॥ सुग्रीवः प्रानलिस्त्वरितः सन् सर्वान् रामे निवेदयिता स्थितः तानबीच । तदेवाह-यथोति । भो वानरेन्द्राः ! पर्वतादिषु स्वानि बलानि यथासुखं निवेशयित्वा । बलज्ञो यूथपः। स्वं बलं प्रतिपत्तुं ज्ञातुम् ईटे ईशो भवेत् । लिङथै लट् । यद्वा रामे निवेदयित्वा तदधीनं कृत्वा कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः । शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ ४२ ॥ अपरे वानरश्रेष्ठाः संयम्य च यथोचितम् । सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥४३॥ सुग्रीवस्त्वरितो रामे सर्वीस्तान वानर र्षभान् । निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥४४॥ यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वान रेन्द्राः । निवेशयित्वा विधिवद्वलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥४५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदि काव्ये श्रीमत्किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९॥
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः। उवाच नरशार्दूलं रामं परवलार्दनम् ॥ १॥
आगता विनिविष्टाश्व बलिनः कामरूपिणः । वानरा वारणेन्द्राभा ये मद्विषयवासिनः ॥२॥ अब्रवीत् तत्तत्स्वरूपमब्रवीत् । यथेति । वानरेन्द्र इति च पाठः । सुग्रीवः बलं प्रतिपत्तुमीष्ट स्म ॥४४॥४५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण । Mभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ अथ सीतान्वेषणाय पूर्वस्यां दिशि सुग्रीवेण विनतप्रेषणं चत्वा रिशे-अथ राजेत्यादि।।१॥ आगता इति ।मद्विषयवासिनः मदवगतदेशवासिनः। “विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि" इत्यमरः । यद्वा मद्राज्य सुग्रीवाय न्यवेदयन् , आत्मानमिति शेषः ॥ ४२ ॥ संयम्य वस्त्रादिक सङ्कचितं कृत्वा ॥ ४३ ॥ सुग्रीव इति । सुग्रीवः प्राञ्जलिः त्वरितः सर्वान्वानरर्षभान रामे निवेदयित्वा स्थितः तानववीत, भो वानरेन्द्राः ! पर्वतनिझरेषु वनेष स्वानि बलानि यथासुखं निवेशयित्वा बलज्ञो यूधप: स्वं स्वं बलं प्रतिपतुं ज्ञातुमीष्टे ईशो भवेत् । व्यत्ययेन लिङ लट् ॥ ४४ ॥ ४५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ अथ सुग्रीवो रामाज्ञापुरस्सरमेव सीतान्वेषणं कारयितुं तदनुज्ञा प्रार्थयते-अयेति ॥ १॥ मद्विषयवासिनः मदवगत
For Private And Personal Use Only