________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
|| महेन्द्रादय एव पञ्च शैलाः॥२॥ तरुणेति । पश्चिमायां दिशि ये स्थिताः तेषु ये वानराः स्थिता इति योजना । अस्तगिरिपर्यन्तपर्वतेष्वित्यर्थः॥३॥ आदित्य भवने उदयगिरौ । पद्माः चन्दनविशेषाः ॥ ४ ॥ ५ ॥ मनःशिलागुहावासा मनःशिलामयगुहावासाः । महारुणे महारुणाख्ये । यत्र यच्छन्दो नास्ति तत्राध्याहर्तव्यः ॥ ६-८ ॥ रामानु० - मनःशिलागुहावासाः इति सम्यक् ॥ ६ ॥ सामेति । कल्पैः उपायैः । समानय तदर्थ प्रेषय ॥ ९ ॥ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च । मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २ ॥ तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः । पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ ३ ॥ आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे । पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥ ४ ॥ अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः । अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥ ५ ॥ मनःशिलागुहावासा वानराः कनकप्रभाः । मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ॥ ६ ॥ तरुणादित्यवर्णाश्च पर्वते च महारुणे । पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥ ७ ॥ वनेषु च सुरम्येषु सुग न्धिषु महत्सु च । तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ ८ ॥ तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान् । सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥ ९ ॥ प्रेषिताः प्रथमं ये च मया दूता महाजवाः । त्वरणार्थं तु भूयस्त्वं हरीन्संप्रेषयापरान् ॥ १०॥ ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः । इहानयस्व तान् सर्वान् शीघ्रं तु मम शासनात् ॥ ११॥ अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया । हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥ शतान्यथ सहस्राणां कोटयश्च मम शासनात् । प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ १३ ॥
प्रेषिता इति । प्रेषितदूतत्वरणार्थीक्तिः स्वस्य प्रकृतकार्ये पूर्वमेव सावधानतां लक्ष्मणाय द्योतयितुम् ॥ १० ॥ ये इति । दीर्घसूत्राः चिरक्रियाः उद्योगं कुर्वाणा इव कालयापका इत्यर्थः ॥ ११ ॥ १२ ॥ रामानु० - अहोभिरिति हेतौ तृतीया ॥ १२ ॥ शतानीति । बहुसङ्ख्याभिधानं लक्ष्मणाय वानरासङ्घयेयत्व महेन्द्रेति । पञ्चशैलेषु परिगणितमहेन्द्रादिमन्दरान्तेषु । अस्तमयपर्वतं परितः सौवर्णाः षष्टिसहस्राणि गिरयस्तन्ति तेषु ॥ २॥३ ॥ आदित्यभवन इति । आदित्यो 4.ऽस्मिन् भवति प्रादुर्भवतीत्यादित्यभवनम् उदयाद्रिः । ये स्थिता इति सम्बन्धः । पद्मतालेति । पद्मः चन्दनवृक्षविशेषः । पलाशाख्यो वृक्षो वा ॥४-१०॥ दीर्घ सूत्राः
For Private And Personal Use Only