________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. १०८॥
www.kobatirth.org
स्वोक्तपरुषवाक्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तत्वमुपपादयन् स्वापराधं शमयति यचेति । भाषितं सीतोद्देशेन श्रवणासयं विलापम् ॥ २० ॥ तनि० – शोकाभिभूतस्येत्यनेन रामः स्वभावतः परुषभाषणं न वतीति व्यज्यते । " उच्यमानोपि परुषं नोत्तरं प्रतिपद्यते " इति प्रसिद्धेरिति भावः । तादृशस्य रामस्य भाषणं श्रुत्वा मया त्वमुक्त इत्यनेन उक्तानुवादस्यादोषत्वं व्यञ्जितम् । तच्चेति । सूचनस्थापि यद्भवेदित्यनुवादितप्रयुक्तमित्यर्थः । अत्रेदं ७ वेदितव्यम् - कार्याभिसन्धिसद्भावे जाग्रति स्वामिनः श्रीरामस्य सन्निधिं प्रति गन्तव्यत्वरं विस्मृत्य भोगप्रसङ्गसङ्गेनानन्यपरत्वात्समयातिलङ्घनापराधं कृतवति महाराजे लक्ष्मण क्रोधवेगं निररीक्ष्य मित्रश्रेष्ठेन हनुमता "कतापराधस्य हि ते नान्यं पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्धा लक्ष्मणस्य प्रसादनात् ॥ " इति महाराजाय
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् । मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ॥ २० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
हितोपदेशे कृते सति महाराजोपि बुद्धा "यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा । प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ " इति कथनेन भगवद्विषये कृतापराधेनापि भागवतक्षमापणे कृते सति तन्मुखेन भगवानपराधान् क्षमयते । ततो भगवदपचाररहितः सन् तत्कैङ्कर्ययोग्यो भवतीत्येनमर्थं विशदीचकार । तदनन्तरम् "यच्च शोकाभिभूतस्य कोधाद्रामस्थ भाषितम् । मया त्वं परुषाण्युक्तस्तच त्वं क्षन्तुमर्हसि ॥ " इति लक्ष्मणस्तावदात्मीयपरुषवाक्यानां शोकविवशरामक्रोधमवेक्ष्य तदनुरूपाणि वाक्यान्युक्तानीति सोपाधिकत्वमुपपाद्य सोपाधिकस्वापरापनिवृत्तये सुमित्रात्मजः सुग्रीवं प्रसादयन् सापराधेषु श्रीवेष्णवेषु पश्वात्तापेन कृतप्रायश्चित्तेष्वपराधा निवृत्तेषु च सत्सु सापराधत्वदशायां स्वाचरितानामपचाराणां व्युदासार्थं ते प्रसादनीया इति शास्त्रार्थप्रकटनं कृतवानिति भावः ॥ २० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥ अथ सर्ववानरसमानयनं सप्तत्रिंशे - एवमित्यादि ॥ १ ॥ स्वोक्तपरुषवाक्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तमुपपादयन् स्वापराधं शमयति यच्चेति । रामस्य भाषितं सीतोद्देशेन श्रवणासह्यविलापम् ॥ २० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपि काख्यायां किष्किन्धाकाण्डव्याख्यायां षटत्रिंशः सर्गः ॥ २६ ॥ १ ॥
For Private And Personal Use Only
टी.कि.क.. स० ३७
॥ १०८ ॥