________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अभिहिते एतादृशो रावणः, सुग्रीवो दुर्बलः, तं कथं रामोऽवलम्बत इति वालिनोक्तमिति ज्ञेयम् ॥ १८-२० ॥ रामानु० - श्रवात्तस्माद्रवीम्यहमिति पाठः ॥ १८ ॥ | कृतेति । अत्र सीतान्वेषणकार्यविषये । सुग्रीवेण पुरा त्वदागमनात्पूर्वमेव । संस्था व्यवस्था, त्रिपञ्चरात्रादूर्ध्वं नागन्तव्यमित्येवंरूपा । यथा येन प्रकारेण कृता तथा अद्य अस्मिन् दिने । तैरागन्तव्यम् ॥ २१ ॥ २२ ॥ तव हीति । हिशब्दः पादपूरणे। सर्वाः हरिवरवनिताः तवेदं मुखं निरीक्ष्य प्रथम तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् । राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥२०॥ कृताऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा । अद्य तैर्वानरैः सर्वेरागन्तव्यं महाबलैः ॥ २१ ॥ ऋक्षकोटिसहस्राणि गोलाङ्गलशतानि च । अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम । कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ २२ ॥ तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः । हरिवरवनिता न यान्ति शान्ति प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मी० श्रीमत्किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५॥ भयस्य शङ्किताः वालिवधजनितभयशङ्किताः सत्यः । रोषाद्धेतोः । क्षतजसमे नयने निरीक्षमाणाः शान्तिं न यान्ति हि न यान्त्येव । प्रथमभयस्य शङ्किता इति कर्मणि षष्ठी । “न लोकाव्यय० -" इत्यादिना षष्ठीप्रतिषेधेपि तत्प्रयोग आर्षः ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥
तारामुखेनाङ्गदोक्तरामसुग्रीव सख्यकरणवृत्तान्तश्रवणानन्तरमति बल पराक्रमरावणनिरसनविषये मां विहाय दुर्बलं सुग्रीवं रामः कथमवलम्बत इति तारायाः | प्रत्युत्तरत्वेनोक्तवानित्यवगम्यते ॥ टी०-पूर्व सुग्रीव रावणं | सीता समानेष्यतीत्युक्तम् ददानीमसमर्यो रावणहनन इति तयैवोच्यते एतत्पूर्वोत्तर विरुद्धमित्यत आह-आगम इति । आगमः सीता प्राप्तिलक्षणकार्यागमः, सुग्रीवेण भविष्यतीति न व्यक्तः न स्फुटः, तर्हि रावणहनने सुप्रीवो निमित्तमिति कथं प्रवीधीत्यत आह-शापादिति । तस्य रावणस्य कर्मप्राप्त शापात् कपिभिरसहायैः रावणो नक्ष्यतीति | नन्दिकेश्वरशापादित्यर्थः । शापात्तस्य ब्रवीम्यहम इत्यस्य व्याख्यातुः पाठः ॥ १८-२० ॥ कृतेति । हे सौमित्रे ! अत्र सीतान्वेषणकार्यविषये । सुग्रीवेण पुरा स्वदागमनात्पूर्वमेव । संस्था व्यवस्था त्रिपञ्चरात्रादवगागन्तव्यमित्येवंरूपा यथा येन प्रकारेण कृता तथा अद्य अस्मिन् दिने तैर्महाबलैरागन्तव्यमिति योजना ॥ २१ ॥ २२ ॥ तवेति । हरिवरवनिताः तवेदं मुखं निरीक्ष्य प्रथमभयस्य शङ्किताः वालिबधजनितभयशङ्किताः सत्यः रोषाद्धेतोः क्षतजसमे नयने निरीक्षमाणाः शान्तिं न यान्ति हि न यान्त्येव । प्रथमभयस्येति कर्मणि षष्ठी ॥२३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ ३५ ॥
For Private And Personal Use Only