________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ पुनस्तारया लक्ष्मणसान्त्वनं पञ्चत्रिंशे-तथा ब्रुवाणमित्यादि ॥१॥ वक्तव्यः, परुषमिति शेषः ॥२॥ जिह्मः कुटिलः॥३॥ विस्मृत इति । कर्तरि निष्ठा । अन्यैर्दुष्करं तम् उपकारं न विस्मृत इति योजना ॥ ४-६ ॥ विश्वामित्रो घृताच्यामासक्तो दश वर्षाणि अहोऽमन्यत दिनममन्यत ।।
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा । अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥१॥ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति । हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ॥२॥ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः। नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥३॥ उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः । रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥४॥ रामप्रसादात्कीर्ति च कपिराज्यं च शाश्वतम् । प्राप्तवानिह सुग्रीवो रुमा मांच परन्तप॥५॥ सुदुःखं शयितः पूर्व प्राप्येदं सुखमुत्तमम् । प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥६॥ घृताच्या किल संसक्तो दश वर्षाणि लक्ष्मण । अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥७॥ स हि प्राप्तं न जानीते कालं कालविदां वरः। विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥८॥ देहधर्म गतस्यास्य परिश्रान्तस्य लक्ष्मण ।
अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥९॥ घृताचीशब्देना। मेनकैवोच्यते । मेनकासङ्गस्य बालकाण्डेऽभिधानात् ॥७॥ रामानु०-अत्र घृताचीशब्दो मेनकाया नामान्तरम् । 'तां ददर्श महातेजा मेनका कुशिकात्मजः' इत्यादिना, ' तस्यां वसन्त्यां वर्षाणि पच पच च राघव' इत्यन्तेन विश्वामित्रस्प मेनकायां दशासक्तेर्षालकाण्डेऽभिहितत्वात् ॥ ७॥॥८॥ देहेति । देहधर्म
॥१-३॥ टीका-उपकारमिति । नत्र पछन्दस्य उतार्थमात्रपरामशिवानपुंसकत्वमविरुद्धम् ॥ १- घृताच्यामिति । अत्र घृताचीशब्दो मेनकाया नामान्तरम् । अहः एकदिनम् । अमम्पत, विषया| सक्त्येति भावः ॥ ॥ स हीति । प्रथाजनः प्राकृतः तुच्छ बस्यर्थः ॥ ८ ॥ देहति । देहधर्म गतस्प शरीरस्वभावं प्राप्तस्य । कामं कामवर्तनम् ॥९॥
सा-कृतमुपकारं जानातीति कतबःसन भवतीत्यकृतज्ञः, तादृशो नैव । शठः गूढरेषी । अनुतकथः मूषावादी । जिमः कुटिलः ॥ ३॥ यत् यस्मात् अन्यैर्दुकर रामेण कृतम् उपकारमुदिश्य अयं वीर: समीरः विसतः । मावे कः । विगतं स्मृतं यस्य स तथा विस्मरणवानिति याक्त, नापि नैव मातीत्यर्थः । अतोपि न कृतन इत्ययः ॥॥
For Private And Personal Use Only