SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रामानु० उत्पपातेति । महेन्द्रस्य ध्वजी यथा स्वलंकृतः तथा स्वलंकृतः हरिश्रेष्ठः सौवर्णमासनं हित्वा महाध्वज इवोत्पपातेति संबन्धः ॥ २ ॥ ३ ॥ उत्पतन्तमिति । अनुत्पेतुः पश्चादुत्पेतुः ॥ ४ ॥ रामानु० - उत्पतन्तमनृत्पेतुरिति सम्यक् ॥ ४ ॥ संरक्तनयन:, मदेनेति शेषः ॥२- ७॥ यस्त्विति । अथमें इति च्छेदः ॥ ८ ॥ शतमिति । पुरुषः अश्वानृते अश्वविषयानृते । शतं हन्ति, शताश्वहननदोषभाग् भवेदित्यर्थः । एवं गवानृते गोविषयानृते सहस्रं हन्ति सहस्रगोहननदोषभागू उत्पतन्तमनुत्पेत् रुमाप्रभृतयः स्त्रियः । सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ॥ ४॥ संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः । बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ ५ ॥ रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् | अब्रवी लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ ६ ॥ सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः । कृतज्ञः सत्यवादी च राजा लोके महीयते ॥७॥ यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् । मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥८॥ शतमश्वानृते हन्ति सहस्रं तु गवानृते । आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥ ९ ॥ पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः । कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ १० ॥ गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः । दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir भवेत् । पुरुषानृते आत्मानं स्वजनं हन्ति, आत्मस्वजनहननदोपभाग्र भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वहननदोष भागू भवेदिति भावः ॥ ९ ॥ पूर्वमिति । तन्मित्रकार्य न प्रतिकरोति पुनर्न करोति ॥ १० ॥ गीतोयमिति । ब्रह्मणा स्वायम्भुवमनुना ॥ ११ ॥ ॐ टी० समाद्वितीय सपपीस प्राधान्यादेवमुक्तम् ॥ ६ ॥ ७ ॥ य इति । यस्तु राजा स्थितो धर्म इत्यत्र अधर्म इति छेदः ॥ ८ ॥ पुरुषः अश्वानृते अश्वविषयानृते शतं हन्ति, शताश्वहननदोष भाग्भवेदित्यर्थः । एवं गवानृते गोविषयान्ते सहस्रं हन्ति, सहस्रगोहननदोष भाग्भवेत् । पुरुषानृते आत्मानं स्वजनं हन्ति आत्मस्वजनहनन दोषभाग्भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वहननदोष भाग्भवेदिति भावः ॥ ९ ॥ अनृतवादिनो दोषमभिधाय कृतघ्नस्य दोषमाह पूर्वमिति ॥ १० ॥ उक्तार्थे सम्मतिमाह गीत इति । अयं श्लोकः कृतघ्नं दृष्ट्वा ब्रह्मणा गीतः तं निबोधत्यन्वयः । नमस्कृतः आदृतः इत्यर्थः ॥ ११-१३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy