SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बाणेति । बाणशल्यं बाणायमेव स्फुरन्ती जिह्वा यस्य स तथा । सायकासनं धनुः तदेव भोगः फणा तद्वान् बभूवति पूर्वेण सम्बन्धः॥३०॥३१॥ सोऽङ्गन्दमित्यादि । वत्स ! आरिन्दमः एष रामानुजः त्वत्सकाशं प्राप्त इति ममागमनं सुग्रीवः कथ्यताम् । भ्रातृव्यसनसन्तप्तः स लक्ष्मणः द्वारि बाणशल्यस्फुरजिह्वः सायकासनभोगवान् । स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः ॥ ३०॥ तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् । समासाद्याङ्गदत्रासाद्विषादमगमद भृशम् ॥ ३१ ॥ सोऽङ्गदं रोषताम्राक्षः सन्दिदेशमहायशाः । सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥३२॥ एष रामानुजःप्राप्तस्त्वत्सकाशमारिन्दमः। भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ॥ ३३ ॥ तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर । इत्युक्त्वा शीघ्र मागच्छ वत्स वाक्यमरिन्दम ॥ ३४ ॥ लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् । पितुः समीपमागम्य सौमित्रिरयमागतः ॥ ३५ ॥ अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः । निपत्य तूर्णं नृपते स्तरस्वी ततः कुमारश्चरणौ ववन्दे ॥ ३६ ॥ संगृह्य पादौ पितुरय्यतेजा जग्राह मातुः पुनरेव पादौ । पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥ ३७॥ तिष्ठति । तस्य वाक्ये तब यदि रुचिः तर्हि साधु युक्तम् । तत्र तव गमनं वा अत्रैव तस्यानयनं वा क्रियताम् । इत्येतद्वाक्यमुक्त्वा शीघमागच्छ इति सोऽङ्गन्दं सन्दिदेशेति सम्बन्धः ॥३२-३४॥ लक्ष्मणस्येति । अयमागत इत्यनन्तरमितिकरणं बोध्यम् ॥३५॥ उक्त विस्तृणाति-अथेति ॥३६॥ रामानु-निपत्य तूर्णं नृपतेस्तरस्वी ततः कुमारश्चरणी ववन्दे इति पाठः ॥ ३६॥ संगृह्यति । मातुः पुनरेवेत्यनेन मातुः पृथग्वन्दनमुच्यते ॥ ३७ ॥ रामानु०-जग्राह मातुः पुनरेख पादावित्यत्र पुनःशब्दः पितृनमस्कारापेक्षया प्रयुक्तः ॥ ३ ॥ बाणेति । बाणशल्यस्फुरजिह्वः बाणशल्यमेव स्फुरन्ती जिह्वा यस्य स तथोक्तः । पचास्यः पन्नग इव बभूवेति पूर्वेण सम्बन्धः ॥ टी-सायकासन धनुः सदेव भोग: सर्पश्मीर तहान् ॥ ३० ॥ तमिति । त्रासालक्ष्मगागमनकाल एवं सुप्रीमो मतो वर्तते अहमपि नागतवेदयं विमरिष्यतीति भयात्तं समासाद्य विषादं दुःसमगमदित्यन्वयः ॥ ३१-३८ ॥ स-कार्यस्मात्यावश्यकताद्योतनाव पुनः प्रणमति-संगधेति । मातुः तारायाः । तम लक्ष्मणागमनरूपम् ॥ १७॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy