________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
रुपशीभाः शरीरशोभाः॥ ३९ ॥ समन्मथमिति । कुलान्विताः सजातीयसमूदन युक्ताः॥४०॥ सारसौषैः इंससमूः ॥४१॥ महारः वित्रास्येति ।। संबन्धः । भिन्नकटाः, मदेनेति शेषः॥४२॥ व्यपेतेति । सवालुकासु ससिकतासु । ससारसाः इति पदच्छेदः। रावविनादितासु निजान्देन सात शब्दासु ॥ ४३ ॥ नदीति । नद्यश्च घनप्रस्रवणानि च तेषाम् उदकानाम् । प्लवङ्गमानां मण्डूकानाम् ॥ ४४ ॥ अनेकवर्णाः कृष्णपीतादिवर्णाः ।।
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुक्षिताङ्गाः। मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ ३९॥ समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगति करिण्यः । मदान्वितं संपरिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति ॥४०॥त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् । निर्भय॑माना इव सार सौधैःप्रयान्ति दीना विमदा मयूराः ॥४१॥ वित्रास्य कारण्डवचक्रवाकान् महारवभिन्नकटा गजेन्द्राः । सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥४२॥ व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु । ससारसा रावविनादितासु नदीषु हृष्टा निपतन्ति हंसाः॥४३॥ नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम् । प्लवङ्गमानां च गतोत्सवानां द्रुतं रखाः सम्प्रति सम्प्रनष्टाः ॥४४॥ अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु । नष्टाः । क्षुधादिता घोरविषा बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः॥४५॥ चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ ४६॥ सुविनष्टकायाः अत्यन्तकृशशरीराः । नया लीनाः ॥ ४५ ॥ चञ्चञ्चन्द्रकरस्पर्शेन यो हर्षः तेन उन्मीलिततारका निर्मलनक्षत्रा। रागवती आरुण्यवती सन्ध्या । अम्बरम् आकाशम् । स्वयं जहाति । अत्र कान्तकरस्पर्शेन हर्षविस्फारितनेत्रकनीनिका उत्तेजितानुरागा स्वयमेव रतये अम्बरं त्यजन्ती टी-शरद्गुणैः प्रसन्नसलिलादिभिराप्यापिता बाता रूपशोभा येषां ते तथोक्ताः ॥ ३९-४१ ॥ वित्रास्येति । विक्षोभ्य विक्षोभ्य पुनः पुनः प्रसार्य ॥ ४२ ॥ व्यपेतेति । ससारसारावविनादितासु ससारसाश्च तेषामारावविनादिताश्चेति तथा तासु । यद्वा ससारसाः रावविनादितास्विति छेदः ॥ ४३ ॥ नदीति । प्लवङ्गमाना मण्डूकानाम् ॥ ४४ ॥ अनेकेति। अम्बुधरेषु नवोदितेषु सत्तु सुतरी विनष्टाः सङ्कुचिताः कृताः कायाः येषां ते नष्टा अदृश्यमाना, सखाराभावादिति भावः॥ ४५ ॥ ४६॥
For Private And Personal Use Only