SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मित्येतत् क्रियाविशेषणम् । सुदुःखे सुतरां दुःखकरे ॥ २ ॥३॥ सुग्रीवस्येति । त्वं सुग्रीवस्य त्वत्तो बहुशः कान्दिशीकस्य वशं प्राप्तः । सुग्रीव एव विक्रान्त इत्येषः विधिः देवव्यापारः। अहो आश्चर्यकरो भवति ॥ ४ ॥ऋक्षवानरेति । कृच्छं दुःखम् ॥५॥ इदमिति । युधि इतो यत्र शेषे । पुरा त्वया निहता रिपवो यत्र शायिताः तदिदं वीरशयनमित्यन्वयः । युद्धपरायणस्य तव युद्धेनैव मरणं प्राप्तं खल्विति भावः ॥ ६ ॥ विशुद्धसत्त्वाभि मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ ३ ॥ सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो । सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥ ४॥ ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते। एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः। मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥५॥ इदं तदीरशयनं यत्र शेषे हतो युधि । शायिता निहता यत्र त्वयैव रिपवः पुरा ॥६॥ विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय। मामनाथां विहायैकां गतस्त्वमसिमानद ॥ ७॥ शूराय न प्रदातव्या कन्या खलु विपश्चिता । शूरभार्यां हां पश्य सद्यो मां विधवां कृताम्॥८॥ अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः। अगाधे च निमग्नाऽस्मि विपुले शोकसागरे ॥९॥ अश्मसारमयं नूनमिदं मे हृदयं दृढम् । भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ॥ १० ॥ सुहृच्चैव हि भर्ताच प्रकृत्या मम च प्रियः । आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ ११ ॥ जनेति । कूटयुद्धाभावाद्विशुद्धबल । सत्कुलप्रसूतत्वाद्विशुद्धकुल ॥ ७ ॥ रामानु०-प्रिययुद्ध युदपरायण ॥ ७ ॥ शुरायेति । अप्रदातव्यत्वे हेतुमाह शूरभार्यामिति ॥ ८॥ अवभग्नश्चेति । गतिः पतिशुश्रूषेत्यर्थः । यदा गम्यत इति गतिः, सुखमित्यर्थः ॥ ९॥ अश्मसारेति । अश्मसारमयत्वे हेतुः दृढमिति ॥ १०॥ हृदयभेदने हेतुमाह-सुहृदिति । पञ्चत्वं मरणम् ॥११॥१२॥ पाटी-सुग्रीव एव विक्रान्तो भवतीति यत् एष विधिरहो हत्यन्वषः ॥ ४ ॥ ५ ॥ इदमिति । युधि हतो यत्र शेषे, पुरा त्वया निहता रिपवो यत्र शापिताः तदिदं वीरशयनमिति योजना । पुद्धपरायणस्य तव युद्धेनेव मरणं प्राप्तमिति भावः ॥ ६-८॥ अवभग्न इति । शाश्वती गतिः, गम्यत इति गतिरिति व्युत्पत्त्या प्राप्यभूतपतिशुश्रूषो। पाण्यते । मानः त्वत्कलबमहमित्येवंरूपः ॥ ९॥१०॥ हृदयभेदने हेतुमाह-सुहदिति ॥ ११ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy