SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्याह धर्मनित्यैरित्यादि । धर्मनित्यैर्नित्यधर्मैः । तपोभिर्दान्तैः निगृहीतेन्द्रियैः । तपौ हीन्द्रियनिग्रहहेतुः । विशिखैः विगतज्वालैः । " अचि तिः शिखा स्त्रियाम् " इत्यमरः । गुप्तमाहात्म्यैरित्यर्थः ॥ ५-७ ॥ अविषह्येत्यादि । सूर्यः अविपद्यातपः असह्यातपः सन् यावन्नातिविराजते। नात्यन्तमुद्गच्छति । कथमिव ? अमार्गेणान्यायेनागतां लक्ष्मीम् ऐश्वर्य प्राप्य अन्वयवर्जितः साधुसमागमवर्जितो दुष्प्रभुरिवाविपद्यातप इत्यन्वयः ।। अविषह्यातपो यावत्सूर्यो नातिविराजते । अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ॥ ८ ॥ तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः । ववन्दे सहसौमित्रिस्सीतया सह राघवः ॥ ९ ॥ तौ संस्पृशन्तौ चरणावृत्थाप्य मुनिपुङ्गवः । गाढमालिङ्गय सस्नेहमिदं वचनमब्रवीत् ॥ १० ॥ अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह । सीतया चानया सार्द्धं छाययेवानुवृत्तया ॥ ११ ॥ पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् । एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ १२ ॥ सप्राज्यफलमूलानि पुष्पितानि वनानि च । प्रशस्तमृगयूथानि शान्तपक्षिगणानि च ॥ १३ ॥ फुलपङ्कजपण्डानि प्रसन्नसलिलानि च । कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ १४ ॥ द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च । रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ १५ ॥ तावदिच्छामहे गन्तुमित्यनेन रावणवधत्वारा व्यज्यते । अतो न हीनोपमादोषोऽपि ॥ ८-१० ॥ अरिष्टम् पवम् । रिषेः "तीपसह -" इति भावे निष्ठा । अनेनापि रावणविजयाभ्यनुज्ञा सूच्यते ॥ ११ ॥ तपोवनपदार्थान् कृतार्थयितुमाह- पश्येत्यादि ॥ १२ ॥ प्राज्यम् अदभ्रम् । “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु " इत्यमरः ॥ १३ ॥ कारण्डवो जलकुक्कुटः । " मद्दुः कारण्डवः प्लवः " इत्यमरः ॥ १४ ॥ रमणीयत्वादिना विशेष धर्मपरैः । विशिखैः विधूमैः ॥ ७ ॥ अविशेषत्यादिश्लोकद्वयमेकं वाक्यम् । अमार्गेणान्यायेनागतां प्राप्त लक्ष्मीं राज्यलक्ष्मी प्राप्य अन्वयवर्जितः दुष्कुलजातो दुष्प्रभुरिव । अविषह्यातपः अविषह्य आतपो यस्य सः सूर्यः यावन्नातिविराजते नातिजृम्भते तावत्पूर्वं गन्तुमिच्छाम इत्युक्त्वा ववन्द इत्यन्वयः ।। ८-११ ।। आश्रममिति जातावेकवचनम् ॥ १२ ॥ शान्तपक्षिगणानीति परस्परवैरविरहादिति भावः ॥ १३-१७ ॥ टी०-अरिष्टं शुवम् ॥ ११ ॥ सुप्राभ्यं सुसमृद्धम् ॥ १३ ॥ कारण्डवः जलकुकुटः ॥ १४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy