________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalasagasun Gyarmandie
धर्मतः प्रवर्तिता। अतः खल्विमा त्यक्त्वा गन्तुमुद्यतोऽसीति भावः ॥ ६॥ यानीति । अस्माभिरिति इतरख्यपेक्षया बहुवचनम् । अस्माभिः सह त्वया । यानि विहृतानि विहाराः । कृतानीत्यध्याहारः । तेषां त्वया उपरमः विरामः कृतः॥ ७॥ निरानन्देति । अद्य निराशा कालान्तरे आनन्दो भवि। ष्यतीत्याशारहिताऽहं शोकसागरे निमग्ना, अस्मीति शेषः । पञ्चत्वं मरणम् ॥८॥ हृदयमिति । मह्यं मम ॥९॥रामानु-मह्यं मम, हृदयं सुस्थिरम् ।
यान्यस्माभिस्त्वया साध वनेषु मधुगन्धिषु । विहृतानि त्वया काले तेषामुपरमः कृतः॥७॥ निरानन्दा निराशाऽहं निमग्मा शोकसागरे । त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ ८॥ हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् । यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥९॥ सुग्रीवस्य त्वया भार्या हृता स च विवासितः। यत्तु तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ १०॥ निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता । यैषाऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ ११॥ रूपयौवनदृप्तानां दक्षिणानां च मानद । नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ १२॥ कालो निःसंशयो नूनं जीवितान्तकरस्तव । बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥ १३ ॥ वैधव्यं शोकसन्तापं
कृपणं कृपणा सती । अदुःखोपचिता पूर्व वर्तयिष्याम्यनाथवत् ॥ १४ ॥ मे यदिति च पाठः ॥ ९॥ सुग्रीवस्येति । व्युष्टिः फलम् । “व्युष्टिः फले समृद्धौ च" इत्यमरः। विवासित इति यत्तस्य व्युष्टिरित्यन्वयः ॥१०॥ निःश्रेयसेति। निःश्रेयसपरा श्रेयस्कामा ॥११॥ रूपति । दक्षिणानाम् अनङ्गतन्त्रे कुशलानाम् । प्रमथिष्यसि वशीकरिष्यसीति भावः। वीरस्य स्वर्गसिद्धेरिति भावः ॥ १२॥ काल इति । वशम् अवपन्नः प्राप्तः॥ १३ ॥ वैधव्यमिति । अहं पूर्वम् अदुःखोपचिता अकृपणा च सती संप्रति कृपणा भूत्वा वैधव्यं ।। धर्मतः सम्प्रवर्तता धर्मेण युद्धमाचरता त्वया । परस्मैपदमार्षम् । स्वर्गमार्गे बीरस्वर्गसाधनभूतरणभूमो किष्किन्धेव अन्या रम्या पुरी विनिर्मिता । व्यक्त नूनम् । नो चेत् त्वं कथमत्र शेष इति भावः ॥६॥ यानीति । द्वितीयस्त्वयाशब्दः उपरमः कृत इत्यनेन सम्बध्यते ॥७॥८॥ टीका-सम्प्रति स्वदयमुपालभतेहृदयमिति ॥ ९॥ सुग्रीवस्येति । सुग्रीवस्य भार्या त्वषा हृता स विवासितश्चेति यत्कर्मास्ति तस्येयं व्युष्टिः फलं प्राप्तति योजना । " व्युष्टिः फले समृद्धीच" इत्यमरः ॥ १०॥ टी०-अहं च निराकृतेत्याह-निश्श्रेयसैति । निःश्रेयस कल्याणं परमुद्देश्य यस्यास्सा ॥११॥ रूपेति । दक्षिणानां सरलानाम् । विदाधानामिति यावत् ॥ १२ ॥ बलात सामर्थ्यात येन कालेन का | अवशः अस्वतन्त्रः । सुमीवस्य वशम् अधीनताम् अवानः प्राप्तः ॥ १३ ॥ अदुःखोपचिता दुखिरहितेत्यर्थः ॥ १४ ॥
For Private And Personal Use Only