SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वानररा इत्यादिश्लोकद्वयमेकान्वयम् । दुर्गताः अगतिकाः । राज्यलाभाय सुग्रीवेण वाली इतद्भवतां किं भयमित्यर्थः । मार्गणैरिति बहुवचनं संभावनयोक्तम् ॥ ८ ॥ ९ ॥ अविक्किष्टं सयुक्तिकमिति यावत् ॥ १० ॥ जीवपुत्रे इति । अपुत्रायाः खलु मृतभर्त्रनुगमनमिति भावः । नयति वानरा राजसिंहस्य यस्य यूयं पुरःसराः । तं विहाय सुसंत्रस्ताः कस्माद्रवथ दुर्गताः ॥ ८ ॥ राज्यहेतोः स चेद् भ्राता भ्रात्रा रौद्रेण पातितः । रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः ॥ ९ ॥ कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः । प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम् ॥ १० ॥ जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् । अन्तको रामरूपेण हत्वा नयति वालिनम् ॥ ११ ॥ क्षिप्तान वृक्षान् समाविध्य विपुलाश्च शिलास्तथा । वाली वचसमै वर्णे रामेण विनिपातितः ॥ १२ ॥ अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् । अस्मिन प्लवगशार्दूले हते शक्रसम प्रभे ॥ १३ ॥ रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम् । पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ॥ १४ ॥ अथवाऽरुचितं स्थानमिह ते रुचिरानने । आविशन्ति हि दुर्गाणि क्षिप्रमन्यानि वानराः ॥ १५ ॥ | लोकान्तरमिति शेषः ॥ ११ ॥ १२ ॥ विद्रुतं पूर्वं किष्किन्धातो निर्गतमिदं बलं प्रसृतं प्रकीर्ण सत् अभिद्रुतं किष्किन्धाभिमुख्येन द्रुतम् ॥ १३ ॥ १४ ॥ अथवेति । हे रुचिरानने । ते इह किष्किन्धायाम् । स्थानम् अवस्थानम् । अरुचितम् अनभिमतम् । अत्र स्थातुम् अस्माकं न रोचते इत्यर्थः । राज्यहेतोरित्यत्र एकेनैव बाणेन वालिहनने सत्यपि वालिविषये बहुवाणप्रयोगसम्भावनया मार्गणैरिति बहुवचननिर्देशः ॥ ९ ॥ कपिपत्न्या इति । अविशिष्टम् ऐकरूप्यम् ॥ १०-१२ ।। अभिद्रुतमिति । अभिदुतं किष्किन्धाभिमुख्येन द्रुतम् । विद्रुतं विधावितम् । प्रसृतं प्रकीर्णम् ॥ १३ ॥ १४ ॥ एवमकरगे बाधकमाह-अथवेति ॥ ते तव । इह किष्किन्धायाम् स्थानमवस्थानम् । अरुचितम् अनभिमतम्। हि यस्मात्कारणात् । वानराः शत्रुभूताः दुर्गाणि किष्किन्धादुष्प्रवेशस्थलानि आविशन्ति विषमाता प्रयोजककर्ता । रामः प्रयोक्पकर्ता । बाणाः करणम् । दूरात् दूरे स्थित्वा मार्गणिः पातितश्चेत् किं युष्माभिः पलापितमिति शेषः । तत्सेवयैव भवज्जीवनसम्भवादिति भावः । वालिविषये बहुवाणप्रयोगसम्भावनया मार्गणैरिति बहुवचननिर्देशः ॥ ९ ॥ स० - ननु कथं कपिपल्या इति । “पत्युनों यज्ञसंयोगे " इति यज्ञसंयोग एव पत्नीध्वविधानात् वालिनश्च तिर्यग्जातीयत्वेन यत्राधिकाराभावादिति चेन तस्य देवत्वेन देवानां च देवताधिकरणेऽधिकारस्य समर्थितत्वात्परिदृश्यमानकपित्वं न यज्ञाधिकारविलोपकमिति भावः । अधिकारनिषेधस्तु प्रसिद्धपामरतिर्यग्विषय इति भावः ॥ १० ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy