SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir विशदज्ञानम् । साम सान्त्वनम् ॥६॥ एतदर्य पुत्रपालनार्थम् ॥ ६२॥वयं न चिन्न्याः , अकृत्यकारिण इति शेषः । नाप्यात्मा, निवृत्तपापत्वात् । कुत इत्यत्राइ-वयमिति । भवद्विशेषेण भवतः कृत्यरूपविशेषेण हेतुना। धर्मतः प्रायश्चित्तरूपे धर्म । सप्तम्यर्थे तसिः । कृतनिश्चयाः । अतो वयं न चिन्त्या इत्यादि पूर्वेणान्वयः॥ ६३ ॥ उक्तं विवृणोति-दण्ड्य इति । कार्यकारणसिद्धार्थों । दण्डवत्वदण्डयितृत्वाभ्यां निष्पन्नप्रयोजनावित्यर्थः॥६॥ न सन्तापस्त्वया कार्य एतदर्थ प्लवङ्गम॥६२॥ न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम । वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ ६३ ॥ दण्डये यः पातयेद्दण्डं दण्डयो यश्चापि दण्ड्यते । कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥६४॥ तद्भवान दण्डसंयोगादस्मादिगतकल्मषः। गतःस्वां प्रकृतिं धा धर्मदृष्टेन वर्त्मना ॥६५॥ त्यज शोकं च मोहं च भयं च हृदये स्थितम् । त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम् ॥६६॥ यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर । तथा वर्तेत सुग्रीवे मयि चापि न संशयः॥ ६७॥ धर्मदृष्टेन धर्मशास्त्रदृष्टेन वर्त्मना दण्डसंयोगात् विगतकल्मषः सन् । धा धर्मादनपेताम् । स्वां प्रकृति यथावस्थितशुद्धस्वरूपं गतः ॥ ६५॥ हेत्वन्तरेणाश्वासयति-त्यजति । विधानं विधिः । प्रारब्धं कर्मेति यावत् ॥ ६६ ॥ ६७॥ स्वरूपज्ञानम् ॥ ६१ ॥ ६२॥ न वयमिति । वयं भवता न चिन्त्याः न विचार्याः पराङ्मुखस्य मे वधं प्रच्छन्नं कृत्वा एष पापमार्जितवान उत पुण्यमिति भवता न विचार्य इत्यर्थः । नाप्यात्मा चिन्त्यः भ्रातृभाहरणादिकं कृत्वा गतोह किं भविष्यामीति त्वञ्च त्वया न विचार्यः । कुतः ? वयं भवद्विशेषेण भवतो विशेषेण । धर्मतः धर्मे । कृतनिश्चयाः अस्य वधः किं धर्म्यः, उताधर्म्यः ? इति विशेषेण विचार्य धर्मे निश्चयं कृतवन्त इत्यर्थः । यद्वा भवद्विशेषेण भवदकृत्यविशेषेण हेतुना। धर्मतः प्रायश्चित्तरूपधर्म वयं कृतनिश्चयाः, अतो वयं भवता अचिन्त्याः अकृत्यं कृतवन्त इति न विचार्याः । नाप्यात्मा मम परलोकप्रतिबन्धकमस्तीति भवा नपि न विचार्य इत्यर्थः । "राजभिधूतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ शासनाद्वा विमोक्षादा स्तनः रास्तेयाद्विमुच्यते । राजा त्वशासन पापस्य तदवाप्नोति किल्बिषम् ॥" इति मनुवचनानुसारेणोभयोरपि दोषाभाव इति भावः ॥ १३॥ उक्तमेवार्थ विकृणोति दण्ड्य इति । कार्यकारणसिद्धार्थी कार्य दण्डनम्, कारणमपराधा, भावप्रधानोऽयं निर्देशः । दण्डवत्वदण्डयितृत्वाभ्यां निष्पन्नप्रयोजनावित्यर्थः ॥ ६४ ॥ तत तस्मात्कारणात् । स्वां प्रकृति स्वकीयं परिशुद्धतास्वभावम् ॥६५॥ त्यजेति । विधानं विधिः ॥ ६६-६७॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy