________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
शासने परस्याभ्युदयमुक्त्वा अशासने राज्ञोऽनभ्युदयमाह-शासनादिति । राज्ञा शासने मोचने वा स्तेनश्चोरो मुच्यत एव पापात् । पापस्य पापिष्ठस्य । अशासनाद्राजा तत्किल्विषं पापमानोति॥३४॥न केवलं वचनम् आचारश्चास्मिन्नर्थेऽस्तीत्याह-आयेणेति । यथा त्वया पापं कृतं तथा श्रमणेन क्षपण केन केनचित्पापे कृते मम आर्येण वृद्धप्रपितामहेन मान्धात्रा घोरं व्यसनं दण्डनम् । ईप्सितं प्रयुक्तमिति यावत् ॥३५॥ अन्यैरपीति । प्रमत्तैर्वसुधाधिपै|
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । राजा त्वशासनात् पापं तदवाप्नोति किल्विषम् ॥३४॥ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् । श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥३५॥ अन्यैरपि कृतं पापं प्रमत्तैर्वसुधा धिपैः।प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥३६॥ तदलं परितापेन धर्मतः परिकल्पितः। वधो वानरशार्दूल
नवयं स्ववशे स्थिताः ॥ ३७॥ शृणु चाप्यपरंभूयः कारणं हरिपुङ्गव। यच्छ्रुत्वा हेतुमदीर न मन्यु कर्तुमर्हसि॥३८॥ हेतुभिः । अन्यैरपि जनैः पापं कृतं ते वसुधाधिपाः विगतानवधानाः सन्तः कर्मपरामर्शवेलायां पापिनां प्रायश्चित्तं वधादिकं कुर्वन्ति । तेन प्रायश्चित्तेन तजः तत्पापं शाम्यति । अद्यापीति शेषः ॥ ३६॥ रामानु०-कुर्वन्ति शाम्यत इत्येतदुभयमपि भूतार्थे लट् ॥ ३९ ॥ तदलमिति । न स्ववशे स्थिताःन स्वतन्त्राः, शास्त्रवश्या इत्यर्थः । अनेन पराङ्मुखवधस्य दोषत्वमपि परिहतम्, प्रायश्चित्तस्य यथाकथंचित्कर्तव्यत्वात् । पञ्चमहापातकादिप्राय श्चित्तस्य मरणान्तिकत्वाद्वलादेव हि कार्य भवति नान्यथा ॥ ३७॥ एवं सन्ध्योपासनराज्यपालनादिकं नियमेनानुतिष्ठतो वालिनः शास्त्रवश्यत्वमव त्वत्कृतपापप्रायश्चित्तरूपत्वायथा न कार्येत्याशयेनाह-राजभिरित्यादिश्लोकद्धयेन । पापस्य पापकारिणः । किल्विषं दुरितम् ॥ ३३ ॥ ३४ ॥ आर्येणेति । यथा त्वया पापं कर्म कृतं तथा श्रमणेन क्षपणेन पापे कृते ममार्येण मान्धात्रा तस्मिन श्रमणे घोरं व्यसनं दण्डनम् । ईप्सितं कातितम् । प्रयुक्तमिति यावत् ॥ टी-कि वक्ष्यसीत्स्योत्तरत्वेन शिष्टाचारं दर्शयति-आर्येणेति ।। ३५ ॥ प्रमत्तैर्वसुधाधिपेहेंतुभिः, अन्यैरपि जनैः पापं कृतम् । राजसु प्रमत्तेषु अन्येपि केचिदेवं पापं कृतवन्त इत्यर्थः । ते वसुधाधिपाः पश्चात् धर्मपरामर्शवेलायाम् गतप्रमादास्सन्तः पापिना प्रायश्चित्तं बधवन्धनादिकं कुर्वन्ति तेन प्रायश्चित्तकरणेन । तद्रजः तत्पा शाम्यते । कुर्वन्ति शाम्यत इत्येतदुभयमपि भूतार्ये लट ॥ ३६ ॥ तदलमिति । स्ववशे न स्थिताः शास्त्रवश्या इत्यर्थः ॥ ३७॥ सन्ध्योपासनराज्यपरिपालना दिकं नियमेनानुष्ठितवतो वालिनः शास्त्रवश्यत्वमवलम्म्यैतत्सर्वमुक्तम् । इदानीं शाखामृगत्वमवलम्ब्याह-शृणु चाप्यपरमित्यादि ॥ ३८॥
For Private And Personal Use Only