________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalasagasun Gyarmandie
अङ्गदो वक्ष्यति “भ्रातुज्येष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः॥" ॥ १९-२१॥ तर्हि शिक्षव कर्तव्या किमर्थमवधीस्तत्राह-न हीति ॥२२॥ औरसी पुत्रीम् । प्रचरेत गच्छेत्॥२३॥२४॥ भरतस्तु महीपाल इत्युक्तं विवृणोति-गुरुरिति । धर्मव्यतिक्रान्त धर्मव्यतिकमणम् । पालयन् परामृशन् । गुरुः भरतश्च निग्रहे पर्यवस्थितः । वयं च तदादेशं विधि शास्त्रं कृत्वा नियन्तुं पर्यवस्थिताः । अतः कथं ।
नहि धर्मविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादन्यत्र पश्यामि निग्रह हरियूथप ॥ २१॥ न हि ते मर्षये पापं क्षत्रियोहं कुलोद्भवः ॥ २२ ॥ औरसी भगिनीं वापि भार्या वाप्यनुजस्य यः। प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥ २३ ॥ भरतस्तु महीपालो वयं त्वादेशवर्तिनः। त्वं तु धर्मादतिक्रान्तः कथं शक्य उपेक्षितुम् ॥ २४ ॥ गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् । भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ॥ २५॥ वयं तु भरतादेशं विधिं कृत्वा हरीश्वर । त्वद्विधान भिन्नमर्यादान नियन्तुं पर्यवस्थिताः ॥ २६॥ सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा।दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥ २७॥ शक्य उपेक्षितुमिति पूर्वेण सम्बन्धः॥२५॥ रामानु०-धर्मव्यतिकान्तं व्यतिक्रान्तधर्माणम् ॥ २५ ॥ २६॥ एवं निरपराधवधदोषशङ्कायाः परिहारमुक्त्वा“मामेव यदि पूर्व त्वमेतदर्थमचोदयः" इत्युक्तस्य परिहारमाह-सुग्रीवेणेति । सुग्रीवेण यत्सख्यम् तल्लक्ष्मणसख्यतुल्यं तद्वदपरिहार्यम् । दारराज्यनिमित्तं च जीवत इत्यर्थः । वालिनो विलनिर्गमनात्पूर्व सग्रीवस्य तारापरिग्रहोऽस्तीति भ्रातुज्येष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति
जुगुप्सितः ॥” इति प्रायोपवेशनसमयोक्ताङ्गदवाक्यादवगम्यते ॥ १९-२२ ॥ औरसीमिति । प्रचरेत् गच्छेत् तस्य वध एव दण्डः स्मृत इति सम्बन्धः d॥२३॥ २४ ॥ धर्मव्यतिक्रान्तं धर्मव्यतिक्रमणं कृतवन्तं पालयन् परामृशन् ॥ २५ ॥ वयमिति । भरतादेशविधि भरताज्ञाकरणम् “ औरसी भगिनीं वापि भार्या वाप्यनुजस्य यः । प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः" इत्युक्तप्रकारेगामार्गवर्तिनस्तव वधे दुष्टनिग्रहशिष्टपरिपालकसार्वभौमभरतस्याज्ञाकारिणो मम दोषो नास्तीति ॥ २६ ॥ एवं ॥ इक्ष्वाकूणामियं भूमिः सशैलपनकानना" इत्यारभ्य " वयं तु भरतादेशविधि कृत्वा हरीश्वर" इत्यन्तेन ग्रन्थसन्दर्मेण उक्त्वा सख्युस्सुग्रीवस्य भियकरणहेतुनापि त्वदधे मम दोषो नास्तीत्यभिप्रायेणाह-सुग्रीवेणेति । दारराज्यनिमित्तं दारराज्ये निमित्ते यस्य तत् तथा सख्यम्
For Private And Personal Use Only