________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
Mक्षमं चेत् तत्र साधूत्तरं चिन्त्यतामित्यर्थः ॥५१॥ इतीति । परिशुष्कवकः बहुभाषणकेशादिति भावः । अस्मिन् सगै द्विपञ्चाशच्लोकाः ॥५२॥जा इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तदशः सर्गः ॥१७॥ इत्येवमुक्त्वा परिशुष्कवक्रः शराभिघाताद्यथितो महात्मा । समीक्ष्य रामं रविसन्निकाशं तूष्णीं बभूवामरराज मूनुः ॥५२॥ इत्याष श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ १७॥ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् । परुषं वालिना रामो निहतेन विचेतसा ॥ १॥ तं निष्प्रभामिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥२॥ धर्मार्थगुणसंपन्न हरीश्वरमनुत्तमम् । अधि क्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ॥ ३॥ धर्ममथ च कामंच समयं चापि लौकिकस् । अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥४॥
अथ रामस्योत्तरमष्टादशे-इत्युक्त इत्यादि । वालिना इत्युक्त इत्यन्वयः। विचेतसेत्यनेन परुषवचनमज्ञानकृतमित्युच्यते ॥१॥ रामानु०-इत्युक्त इति श्लोका स्वतन्त्र वाक्यम् । अन्यथा रामशब्दोतिरिच्यते ॥ १॥ तमित्यादी द्वौ । तदा पूर्वम् अधिक्षिप्तो रामः धर्मार्थगुणसम्पन्नम् अनुत्तमं यया भवति तथा पश्चा द्वालिनमब्रवीदिति योजना ॥२॥३॥ रामानु-तं निष्प्रभमित्यादि । अधिक्षिप्तो रामः धर्मार्थगुणसंपन्त्रमनुत्तमं यथा भवति तथा वालिनमब्रवीदिति सम्बन्धः ॥ २॥ ३॥ धर्ममिति । समयम् आचारम् । “समयाः शपथाचारकालसिद्धान्तसंविदः।" इत्यमरः। बाल्यात अज्ञानात ॥४॥ तनि०-धर्म वैदिकपुरुषार्थम् । लौकिक प्रायश्चित्तरूपत्वान्मद्वधस्य युक्तत्वमुत्तमत्वं चेति भावः ॥५१॥५२॥ इति श्रीमहेश्वरतीर्यविरचितार्या श्रीरामायण किष्किन्धाकाण्डव्याख्या सप्तदशः सर्गः॥१७॥ | इत्युक्त इत्यादि । वालिना रामः परुषमुक्तः अधिक्षिप्त इत्यादेरयमाशयः-यद्यपि वालिनो वाणी राममस्तोषीत तथापि वाली तं रामं परुषमुक्तवानिति कृत्वा । वालिना रामः परुषमुक्तः अधिक्षिप्त इत्यायुक्तिः । अत एव श्रीरामोपि वालिपरुषोक्तिमनुसृत्यैव उत्तरं वक्ति धर्ममर्थ च काम चेत्यादिना ॥ इत्युक्त इति रामो | वालिना परुषं वाक्यमुक्त इति सम्बन्धः ॥ १॥ तं निष्प्रभामित्यादि श्लोकद्वयमेकं वाक्यम् । अधिक्षिप्तो रामः धर्भार्यगुणसम्पन्नमनुत्तमं यथा भवति तथा वालिन मब्रवीदिति सम्बन्धः ॥२॥३॥ धर्ममिति । समयम् आचारम् ॥ टी-समयाचारः साङ्केतिकाचारः तम् । बाल्यात् मौदयात् ॥ ४ ॥५॥ स०-सूर्यसङ्काशमित्यनेन रिसादृश्योक्त्या तनिरीक्षण तबदेवेति सूचयति ॥ १२ ॥
For Private And Personal Use Only