________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
विद्धोपि अन्येन संसक्तं बेढुं नाईतीति तवादर्शने सति मे बुद्धिरुत्पन्ना बभूवेति कृत्वा सुग्रीवेण समागतः तथापि त्वं तु प्रमत्तं मां हतवान् । अतो मम त्वद्धस्तहननं मङ्गलं जातमित्यन्ते वाक्यशेषेण योजना | अत पुष त्वामेवं मन्य इत्याह-न त्वामित्यादिना । त्वां विनिहतात्मत्वधर्मध्वजत्वाधार्मिकत्व पापसमाचारत्वादि विशेषणविशिष्टं न जाने । किञ्च सतां वेषधरत्वादिविशेषणविशिष्टं च न जानामि, किन्तु अपहतपाप्मत्वादिगुणकमीश्वरमेव त्वां जानामीत्यर्थः ॥ ननु अनप राधिनस्तव घातकस्य ममेश्वरत्वं दोषराहित्यं वा कुत इत्यत आह-विषय इत्यादिना । त्वमप्यकिल्विषं न हंसि । अहमपि ते विषये देशे पुरे वा यदा नापकरोमि अपकारं न कृतवान् त्वां न जाने च तथापि, फलमूलाशिनं वानरम् अप्रतियुद्धयन्तम् अन्येन समागतं मां हंसि तत्तस्मात् मयि दोषसद्भावादेवेत्यर्थः । किया क्षत्रिय कुलेऽवतीर्य लोकानुग्रहार्थे जगन्मर्यादां पालयतः परमकरुणाशालिनस्तव सुतरामन्यायाचरणं न सम्भविष्यतीत्याशयेनाह धर्मलिङ्गेत्यादिसार्धश्लोकेन । हे राम ! राजकुले जातः धर्मवानिति विश्रुतस्सन अर्थ प्रयोजनमुद्दिश्य अभव्यस्सन् भव्यरूपेण परिधावसि किम्, क्रूरकर्मसमाचारः किम् ? उभयमपि तव न घटत इति भावः ॥ राजनीतो विचार्यमाणायां मद्बधस्तव युक्त एवेत्याशयेनाह साम दानमिति । अपकारिषु पापिषु । वैरबुद्ध्या इतवन्तं मां कथमेवं स्तोषीत्याशङ्कच विचार्यमाणे तव मम च वैरप्रसक्तिरेव नास्तीत्याशयेनाह वयमिति । कानि तर्हि वैरकारणानीत्याकांक्षायामाह भूमिरिति । तव मम च एतादृशकारणानि न सन्तीति भावः । किञ्च नयश्चेति । नृपा अपि कामवृत्तयो न भवन्ति, किमुतेश्वरस्त्वमिति भावः । रागद्वेषादियुक्तस्येन्द्रियपरवशस्य मर्त्यस्य ममेश्वरत्वं कुत इत्याकांक्षार्या निर्गुणेश्वरत्वमेव प्रतिपादयति-त्वामित्यादिश्लोकद्वयेन तु किमर्थे । मनुजेश्वर मनुजश्चासावीश्वरश्वेति तथा मनुष्यरूपेणावतीर्णेश्वर ! इत्यर्थः । कामप्रधानः कामस्य प्रधानः, निर्जितकाम इत्यर्थः । कोपनः, शत्रुसंहारविषय इति शेषः । तत्संहारार्थमनवस्थितस्तत्रतत्र सञ्चरमाणः । राजवृत्तेश्च सङ्कीर्णः, त्यक्तराजधर्म इत्यर्थः । वानप्रस्थधर्मयुक्तत्वादिति भावः । ते धर्मे सामान्यधर्मेपि । अपचितिः पूजा, आदर इत्यर्थः । कास्ति ? मनुष्याधिकारत्वाच्छास्त्रस्येति भावः । ते बुद्धिः अपि नावस्थिता, लक्ष्मीपतित्वात् । अतएवैतादृशविशेषणविशिष्टः त्वं कामवृत्तस्सन इन्द्रियैः कृष्यसे किम् ? न कृष्यत एव । अत एव त्वमीश्वर इति भावः ॥ तथाप्यनपराधित्वद्बधजनितदुष्कृतकर्माहं सतां किमुत्तरं वक्ष्यामीत्यत आह-इत्वेति । बाणेन अनपराधिनं मां हत्वा दुष्कृतं कर्म कृत्वा सतां मध्ये वक्ष्यसि किम् किन्तु अनपराधिनमेव मां हत्वा अत एव सुकृतं कृत्वा सतां मध्ये वक्ष्यसीत्यर्थः । किव सापराधिनो वानरस्य मम वधेन तव दोषशङ्केय नास्तीत्याशयेनाह - राजहेत्यादिश्लोकद्वयेन । एतादृशानामेव नरकः । अनपराधिनो मम घातुकस्य तव तु नास्तीति भावः ॥ किञ्च अनुपयोगिचर्मादियुक्तमद्बध एव मयि दोषसद्भाव द्योतक इत्याशयेनाह अधार्य चर्मेत्यादिश्लोकत्रयेण । तारया निवारितोपि त्वद्धस्तवधकांक्षयैव युद्धायागतोस्मीत्याशयेनाह - तारयेति । सर्वज्ञयापि तारया भर्तृ मोहेनाहितमुक्तस्सन तदतिक्रम्य कालस्येश्वरस्य तव वशं पार्षदत्वमागतः । सत्यं न सन्देहः । त्वयेति । विधर्मिणा पत्या शीलसम्पन्ना प्रमदा यथा सनाथा तथा तादृशनाथेन त्वया पृथिवी सनाथा न, किन्तु दुष्टनिग्रहादिरूपपरमकल्याणगुणनाथेन त्वया सनायेत्यर्थः ॥ मम कपटयुद्धकरणहेतुना शठत्वादिगुणयुक्तत्वादे दृशेन पृथिवी सनाथा कथं भवतीत्याशङ्कयाह- शठ इत्यादि । यतो महात्मना दशरथेन त्वं जातः अतः कारणगुणपूर्वकत्वात् कार्यगुणस्येति न्यायेन सकलकल्याण गुणयुक्तस्त्वं कथं शठः ? कथं नैकृतिकः ? कथं पापः ? इत्येवं योजना । तादृशो न भवसीति भावः ॥ ईश्वरेण त्वया निहतोऽहं कृतार्थ इत्याशयेन श्रीरामे स्वतन्त्रे श्वरगुणान् प्रकटयति-भिन्नचारित्रेत्यादि । रामहस्तिना निहतोऽहं कृतार्थ इति शेषः । रामस्यैश्वरत्वादेव भिन्नचारित्रत्यादियुक्तत्वमिति भावः ॥ मया हतस्य तव
For Private And Personal Use Only