________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
हन्यामिति प्राप्तकाले लिङ् । वधकाले प्राप्ते सकलमृगहननं कुर्यामित्यर्थः । प्राप्तकालश्च तदर्शनकालः ॥२०॥ तच्च हननमिह स्थित्वा न कतै शक्यमित्याह-भवानिति । तत्र मृगसङ्घवधविषये । भवान् मया अभिषज्येत अभिभूयेत । अभिपूर्वात् पञ्जः कर्मणि लिङ् ।“ अभिषङ्गः परि भवे सङ्गाकोशनयोरपि" इति बाणः। तादृशमृगहनने मया त्वं कृतापराधो भवेः, आश्रमसम्बन्धित्वादिति भावः । ततः किमित्यत्राह किंस्यात्कृच्छ
तानहं सुमहाभाग मृगसङ्घान समागतान् । हन्यां निशितधारेण शरणाशनिवर्चसा ॥२०॥ भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः। एतस्मिन्नाश्रमे वासं चिरंतुन समर्थये ॥२१॥ तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ॥२२॥ अन्वास्य पश्चिमा सन्ध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ २३॥ ततश्शुभंतापसभोज्यमन्नंस्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् । ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनी
मवेक्ष्य ॥ २४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तमः सर्गः ॥७॥ तरं तत इति । ततः भवदभितापात् कृच्छ्रतरं कष्टतरं किम्, न किमपीत्यर्थः । तस्मादेतस्मिन्नाश्रमे चिरं तद्दर्शनपर्यन्तं वासं न समर्थये नेच्छामि । Kalइह वासे मृगसपीडां सोढ़ा स्थातव्यम् । हत्वावस्थाने स्वाश्रममृगाणां स्वसन्निधौ हनने तव वैमनस्यं स्यात् । तच्च ममानिष्टम्, अतोऽन्यत्र त्वदा
सन्निधाने मृगान् हनिष्यामीत्यर्थः । इत्युवाचेति पूर्वेणान्वयः॥२१॥ वरदमित्यनेन मुनिस्तथैवानुज्ञातवानिति गम्यते । सन्ध्यामुपागमत् सन्ध्यामुद्दिश्य । सरस्तीरं गतवानित्यर्थः। पश्चिमा सन्ध्यामन्यास्य । अत्यन्तसंयोगे द्वितीया । यावत्सन्ध्यं जलतीरे जपन् स्थित्वेत्यर्थः । तत्राश्रमे वासमकल्पय । दित्यनेन प्रातर्जिगमिषा जातेति व्यज्यते । अन्यत्र गत्वा मृगनिरासश्च रावणं प्रति मारीचानुवादादवगन्तव्यः ॥२२॥२३॥ शुभं भक्त्युपनीतत्वेन । सम्बन्धः ॥ १९॥ हे महाभाग ! अहं धनुर्विकृष्य शरण मृगसङ्घान हन्यां चेत् तत्र मृगवधे भवानभिषज्येत विषादं प्राप्नुयात, ततो भवद्विषादान्मे कृच्छ्तरं कष्टतरं किं स्यात् । न किमपि । अतस्त्वदाश्रमे हिंसा न करिष्यामीति भावः । तत इत्यत्राप्यनुषज्यते, ततः कारणादेव एकत्र चिरं वासं न समर्थये नाङ्गी करोमीति ॥ २०॥ २१ ॥ सन्ध्यामुपागमत् सन्ध्यामुपासितुमुपागतवानित्यर्थः ॥ २३-२४ ॥ इति श्रीमहे श्रीरामा आरण्यकाण्डव्याख्यायो सप्तमः सर्गः ॥ ७ ॥ | टी-तत इति । ताभ्यामित्यनेन सीतापाश्च संग्रहः ॥ २४ ॥
For Private And Personal Use Only