________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
ततःस्वार्थे कः। यद्वा शल्यं शङ्कः । “वा पुंसि शल्यं शङ्कर्ना" इत्यमरः । तत्सदृशानि रोमाणि झल्यानि तद्वान् शल्यः। अर्शआद्यजन्तः। ततः स्वार्थे कः । श्वानं विध्यतीति श्वाविधः । पचायच् । “ अन्येषामपि " इति दीर्घः । [श्वाविड इति पाठे पृषोदरादित्वाडकारः]। इमौ वराह । विशेषौ ॥ ३७॥ उपसंहरति-चर्म चेति । सोऽहम् अभक्ष्यपञ्चनखान्तभूतोऽहम् ॥ ३८ ॥ ३९ ॥ त्वयेति । पतिना पत्या ॥ १०॥ शठ इति ।
चर्म चास्थि च मे राजन् न स्टशन्ति मनीषिणः। अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ॥ ३८ ॥ तारया वाक्यमुक्तोहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः ॥३९॥ त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा । प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा ॥४०॥ शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः। कथं दशरथेन त्वं जातः पापो महात्मना ॥४१॥ छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥ ४२ ॥ अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः॥४३ ॥ उदासीनेषु योऽस्मासु विक्रमस्ते प्रकाशितः । अपकारिषु तं राजन्नहि पश्यामि विक्रमम्
॥४४॥ दृश्यमानस्तु युध्येथा मया यदि नृपात्मज । अद्य वैवस्वत देवं पश्येस्त्वं निहतो मया ॥ ४५ ॥ शठः गूढविप्रियकृत् । निकृत्या अपकारेण जीवतीति नैकृतिकः। क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रितमानसः मिथ्याशान्तमनस्कः ॥ ११ ॥ छिन्नेति ।। पाछिना चारित्रमेव कक्ष्या इभबन्धनं येन स तथा । सतां धर्मातिवर्तिना सतां धर्माः पूर्वोक्ता सामदानसापराधिजनदण्डनादयः तानतीत्य वर्तत इति तथा। गजविषये अतिक्रान्तमर्यादेनेत्यर्थः ॥४२॥ अशुभमिति । ईदृशं कृत्वा स्थितस्त्वं सद्भिः ईदृशम् अशुभत्वादिविशिष्टं वक्ष्यसे, अशुभकारीत्येवं वक्ष्यसी त्यर्थः ॥४३॥ रामानु०-अशुभमिति । चकारोऽप्यर्थे । वक्ष्यसे वक्ष्यसीत्यर्थः । आत्मनेपदमार्षम् ॥ ४३ ॥ उदासीनेविति । अपकारिषु रावणादिषु ॥४४॥ दृश्यमानस्तु चमेति । सोऽहम् अभक्ष्यपश्चनखान्तर्भूतोऽहम् ॥३८-४०॥ शठ इति । नैकृतिकः निकृत्या परापकारेण जीवतीति नैकृतिकः । क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रित मानसः मिथ्याप्रशान्तमानसः ॥४१॥ ४२ ॥ अशुभं चेति । चकारः किमित्यर्थे । किं वक्ष्यसे वक्ष्यसि ॥ ४३-४५ ॥
3333333324
For Private And Personal Use Only