SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भ. धर्मे श्रद्धा नास्तीत्यर्थः । अवस्थिता व्यवस्थिता, परद्रव्याभिलाषिणीत्यर्थः। कामे च न व्यवस्थेत्याह इन्द्रियैरिति ॥ ३२॥ इत्वेति । मां हत्वा टी.कि.का. ॥४९॥ स्थितः त्वं जुगुप्सितं कर्म कृत्वा सतां साधुकर्मकारिणां मध्ये किं वक्ष्यसि ॥३३॥ परिवेत्ता ज्येष्ठेऽनूठे दारपरिग्रहकृत् । “परिवेत्ताऽनुजोऽनूठे ज्येष्ठ .. स०१७ दारपरिग्रहात्।" इत्यमरः । निरयगामिनः नरकगामिनः ॥ ३४ ॥ सूचकश्चेति । सूचकः पिशुनः । कदर्यः लुब्धः। गच्छन्ते गच्छन्ति ॥ ३५ ॥ किमेव ॥ हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् । किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥ ३३ ॥ राजहा ब्रह्महा गोघ्रश्चोरः प्राणिवधे रतः। नास्तिकः परिवेत्ताच सर्वे निरयगामिनः ॥ ३४ ॥ सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः। लोकं पापात्मनामेते गच्छन्ते नात्र संशयः॥ ३५॥अधार्य चर्म मे सद्धी रोमाण्यस्थि च वर्जितम् । अभक्ष्याणि च मांसानि त्वधैिर्धर्मचारिभिः ॥३६॥ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ॥ ३७ ॥ शनिन्दसि ? मृगयायां मृगवधस्यादोषत्वादित्यवाह-अधार्यमिति । मृगचर्मवत् मे चर्म न धार्यम् । मे रोमाणि ऊर्णादिवन्नास्तरणाहाणि । मे अस्थि च । Mगजास्थिवत् न स्पृश्यम् । मांसानि च न भक्ष्याणि । अतः किमर्थ मां इतवानसि ॥ ३६॥ तनि०-न धार्य चर्म मे सनिः । मे चर्म व्यापाजिनादिवन्न धारणयोग्यम् । रोमाणि चामरादिवन्न ग्राह्याणि । अस्थि गजदन्तादिकमिव न ग्राह्यम् ॥ ३६ ॥ अभक्ष्यता कुत इत्यत्राह-पञ्चेति । शल्यका श्वाविधः गोधा शशः कूर्मश्चेति पञ्चनखाः पञ्च भक्ष्याः । पञ्चनखेषु जन्तुषु एते पञ्चैव भक्ष्याः । नान्य इत्यर्थः । परिसङ्घयाविधिरयम् । ब्रह्मक्षत्रेणेत्युपलक्षणम् । त्रैवर्णिकेनेत्यर्थः । शलतीति शल्यः। “शल, श्वल्ल-आशुगमने" इत्यस्माद्धातोः “सानसिवर्णसिपणसितण्डुलाङ्कुश-" इत्यादिना निपातनाद्यत्प्रत्ययः। राजहेति । सूचकः पिशुनः कदर्यः लुब्धः । गच्छन्ते गच्छन्ति ॥ ३४ ॥ ३५ ॥ टी-चर्मायपेक्षया हत इत्यत आह-अधार्यमिति ॥ ३६ ॥ पञ्च पञ्चनखाः भक्ष्याः पञ्चनखेषु पचव भक्ष्या इति नियमः । तानेव परिगणयति-शल्यक इति । शल्यवान् शल्यः । अर्शआदित्वादन् । शल्य एव शल्यकः । शुक्तिकाकारशल्यावृतसर्वाङ्गो जन्तुविशेषः । श्वाविधः कण्टकाकारदीर्घरोमभिः श्वानं विध्यतीति श्वाविधः ॥ टी-पश्चनखत्वात्कथमयोग्पमित्याशय योग्पान् पश्चनसान् सम्परिचष्ट-पञ्चेति । शल्यकः श्वाविधः ॥३७॥ | स-परिवेत्ता ज्येष्ठे अकृतदारेऽकतानिहोत्रे च कृतदारः कृतामिहोत्रोऽनुजः ॥ ३४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy