________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वीरं रामं बहुमान्य साधु वाणं पातितवानसीति शापयित्वा स कुत्र स्थित इति शनैः वेदनातिशयान्मन्दं वीक्षमाणम् । इवशब्दो वाक्यालङ्कारे ॥ ययाति । मिव । कालेन देवेन । “कालःश्यामलदिष्टयोः" इति दर्पणः॥ महेन्द्रमिव दुःसहम् आभिमुल्येन स्थातुमशक्यम् ॥ सिंहेति । दीप्तास्यं दीप्तमुखम् ।।
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् । आदित्यमिव कालेन युगान्तेभुवि पातितम् ॥ १०॥ महेन्द्रमिव दुर्धर्ष महेन्द्रमिव दुःसहम् । महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्॥११॥ सिंहोरस्कमहाबाहुं दीप्तास्यं हरिलोचनम् । लक्ष्म णानुगतो रामो ददशोंपससर्प च ॥१२॥ तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत्प्रश्रितं वाक्यं परुष धर्मसंहितम् ॥१३॥ त्वं नराधिपतेः पुत्रः प्रथितःप्रियदर्शनः । कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ॥१४॥ पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धः शरेणोरसि ताडितः ॥ १५॥ रामः करुणवेदी च प्रजानां च हिते रतः । सानुक्रोशो जितोत्साहः समयज्ञो दृढवतः । इति ते सर्वभूतानि कथयन्ति यशोभुवि ॥ १६॥ दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः। पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ॥ १७॥तान्
गुणान सम्प्रधाहमयं चाभिजनं तव । तारया प्रतिषिद्धोपि सुग्रीवेण समागतः ॥ १८॥ हरिलोचनं कपिलनेत्रम् ॥ ९-१२॥ प्रश्रितं विनयान्वितम् ॥१३॥ प्रश्रितं वचनमाह-त्वमित्यादिना । प्रियदर्शनः प्रियं दर्शनं शास्त्रं यस्य सः । “दर्शनं शि शास्त्रे स्यात्" इति दर्पणः । पराङ्मुखवधं परयुद्धासक्तवधम् । गुणः उत्कर्षः। युद्धसंरब्धः अन्ययुद्धपराङ्मुख इत्यर्थः ॥१४॥१५॥ करुणवेदी कारुण्यज्ञः । सानुक्रोशः सदयः। समयज्ञः आचारज्ञः।ते यश इत्यन्वयः॥१६॥ दम इति ।"शमश्चित्तप्रशान्तिः स्याहम इन्द्रियनिग्रहः"॥३७॥अभिजन प्रश्रितं मृदुपदम् । परुषं निष्ठुरार्थम् । तथापि धर्मसंहितम् अब्रवीत् ॥१३॥१४॥ पराङ्मुखेति । पराङ्मुखवधं कृत्वा पराङ्मुखस्य अन्येन युद्धचमानस्य मम वधं कृत्वेत्यर्थः । युद्धसंरम्भः युद्धपरवशः ॥१५॥ समयज्ञः उचितानुचितसमयज्ञ इत्यर्थः। करुणवेदी विचारादिसामग्रीसमेतः सन् आश्रितान् रक्ष्यत्वेन वेत्तीति करुणवेदी॥ १६ ॥ दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः ॥ १७॥ आभिजन वंशम् ॥ १८ ॥ १९ ॥
• तथा पतितं वीरं गताधिषभियानलम् । पामान्य च तं वीर वीक्षमाणं शनैरिव ।। उपयाती महावीवों भावरी रामलक्ष्मणी ॥ इत्यधिकः पाठः ।
For Private And Personal Use Only