________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyanmandir
शोकदयमेकान्वयम् । उद्भूतः पातितः । आश्वयुक्समये आश्वयुक्समयरूपे । मासि पौर्णमास्याम् । महीतले पातित इत्यन्वयः ॥ ३५ ॥३६॥
उक्तमर्थ वृत्तान्तरेण संगृह्णाति-नरोत्तम इत्यादिशोकद्वयेन । कालयुगान्तकोपमम् युगान्तकालोपममित्यर्थः । स्वार्थे कप्रत्ययः । युगान्तकालो युगान्त मृत्युः । काञ्चनरूप्यभूषितं परभागाय स्वर्णरजताभ्यामलंकृतम् । सधूममित्यनेन ज्वालोन्मुखत्वमुच्यते । हरः प्रलये संहर्ता । नन्वत्र एकवचनादेकेन ।
इन्द्रध्वज इवोद्भूतः पौर्णमास्यां महीतले । आश्वयुक्समये मासि गतश्रीको विचेतनः ॥ ३६ ॥ नरोत्तमः काल युगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूपितम् । ससर्ज दीप्तं तममित्रमईनं सधूममग्निं मुखतो यथा हरः॥ ३७॥ अथोक्षितः शोणिततीयविस्रवैः सुपुष्पिताशोक इवानलोद्धतः। विचेतनो वासवमूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ ३८॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षोडशः सर्गः ॥१६॥ बाणेन वाली हत इत्युक्तम् । इदम् उत्तरत्र तारावाक्येन “रामेण प्रहितै रौदेर्मागणैर्दूरपातिभिः " इत्यनेन बहुवाणदतत्ववचनेन विरुध्यते। मेवम्, शव्याकुलवचनत्वात्तस्य । यतः तारा एकबाणहतं श्रुत्वाप्येवमाह । वक्ष्यति हि-"तं भार्या बाणमोक्षेण रामदत्तेन संयुगे। इतं प्लवगशार्दूलं तारा शुश्राव
वालिनम् ॥” इति । सर्गोपक्रमे च-" निजघान च तत्रेनं शरेणेकेन राघवः।" इत्यत्र एकशब्दः प्रयुक्तः। “प्रतिज्ञातं च रामेण तथा वालिवघं प्रति"|A इति प्रतिज्ञानिहाय छद्मनापि वालिवधः कृतः। अस्मिन् सगें एकोनचत्वारिंशोकाः ॥ ३७॥ ३८ ॥ रामानु०-बालिवक्षसि पातित इत्यतः परम्-तत स्तेन महातेजा इत्पर्य श्लोकः । ततः परम् इन्द्रध्वज इबोदूत इति श्लोकः । ततः परं नरोत्तमः । अथोक्षित इति श्लोकद्वयमुक्तार्थनिगमनपरम् ॥ ३७ ॥३८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पोडशः सर्गः॥१६॥ इन्द्रध्वज इति । गौरदेशे कस्मिंश्चिदुत्सवे आश्वयुक्पौर्णमास्यामिन्द्रमुद्दिश्य ध्वज संस्थाप्य उत्सवानन्तरं ध्वजं पातयन्ति, तद्वद्वाली पातित इत्यर्थः ॥ ३६॥ उक्तमेवार्थ श्लोकदपेन सङ्ग्रहाति-नरोत्तम इति । कालयुगान्तकोपमम् अन्तयतीत्यन्तकः युगादीनां कृतत्रेतादीनामन्तकः युगान्तकः कालवासी युगान्तक वेति विशेष्यपूर्वपदः कर्मधारयः । विशेषणविशेष्यभावस्य कामचारत्वात् । स उपमा यस्य तम् ॥ ३७ ॥ अथोक्षित इति श्लोकस्तूक्तार्थनिगमनपरः ॥२८॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायो पोडशः सर्गः ॥ १५ ॥
फलपतिः । कान्दे- रीण भेदन व किरिकन्यागमन तथा । वालिसुमीवयोर्य अला विजयतकम् । युद्धे विजपमाप्नोति बालिनो विजयं यथा ॥"इति ॥
११८
For Private And Personal Use Only