SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir त्यक्तरोपो भव । पथ्यं हितम् । जल्पितं वचनम् । भावे क्तः । शक्रसमानतेजसा शकतेजस्तुल्यतेजसा । अनेन वालिनो रामस्याधिक्यमुक्तम् ॥३०॥ तदा वक्तव्यकाले, वालिनं प्रतीति शेषः । भापतेर्दिकर्मकत्वात् । तस्य तस्मै । चतुर्थ्यर्थे षष्ठी । “रुच्यर्थीनाम्-" इति हि स्मृतिः। विनाशकालत्वे | तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे। न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाश काले ॥३१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ १५॥ तामेवं त्रुवहीं तारां ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ १॥ गर्जतोऽस्य च संरम्भ भ्रातुः शत्रोविशेषतः। मर्षयिष्याम्यहं केन कारणेन वरानने ॥२॥ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ३ ॥ सोढुं न च समर्थोहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भ हीन ग्रीवस्य गर्जतः ॥ ४ ॥ न च कार्यों विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ ५॥ निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि । सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥६॥ प्रति योत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् । दर्पमात्रं विनेष्यामि नच प्राणैर्विमोक्ष्यते ॥७॥ हेतुः कालाभिपत्रस्येति । मृत्युना गृहीतस्येत्यर्थः ॥३१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चदशः सर्गः ॥१५॥ अथ वालिवधः षोडशे-तामेवमित्यादि ॥१॥२॥ अधर्षितानामिति । धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमिति वा। धर्षणायाः तिरस्कारस्य मर्षणमिति वार्थः॥३॥ हीनग्रीवस्येति परुषोक्तिः॥४॥ पापं निरपराधवधम् ॥५॥ निवर्तने क्रियमाणेऽपि भूयः सौहृदं। सुहृत्कर्तव्यम् । हितोपदेश इति यावत् । भक्तिः कृता प्रकाशितेत्यर्थः ॥ ६॥ सुग्रीवं प्रतियोत्स्यामि ॥ ७॥ तदा हीति । तस्य तस्मै न रोचते ॥ पथ्यं शुभोदकम् । हित न्याय्पम् । तस्य तस्मै । न रोचते हि ॥ ३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायो पश्चदशः सर्गः ॥१५॥॥१॥२॥ टी०-वर्षणामर्षणं धर्षणायास्तिरस्कारस्य मर्षण सहनम् ॥ ३ ॥ युद्धकाले बन्धोधण विशेषतस्सोई न शक्यत इत्याह-सोडमिति ॥४॥ सुप्रीवसहायादामान्मम भय मा शविष्ठा इत्याह-न चेति । पापं महधरूपम् ॥ ५॥ निवर्तस्वेति । भूयः पुनः । कथं किमर्थम् । अनुगच्छसि मामनुसृत्यागच्छसीत्यर्थः ॥६॥७॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy