SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org י । तरुव्यावृत्तिः । " वासुदेवतरुच्छाया नातिशीता न धर्मदा । नरकाङ्गारशमनी सा किमर्थ न सेव्यते ||" इत्युक्तत्वात् । सुग्रीवद्रोहकरणेन नास्माकं साधुत्व लेश इत्याशयः । साधूनामेवम्, आपन्नानां तु परा गतिः “योगक्षेमं वहामि " इत्युक्तरीत्या आश्रितविषये उपायदशाप्रभृति फलपर्यन्तसर्वकार्यकर! इत्यर्थः । तत्राप्यार्तानां संश्रयश्चैव । आश्रितेष्वपि आर्तानां तु सर्वदा समीचीनाश्रयः, सर्वकार्यनिर्वाहक इत्यर्थः । भवत्वेवम्, ममापि कश्विदाश्रयो । भविष्यतीत्यत्राह यशसश्चैकभाजनमिति । एवंविधरक्षको लोकेऽन्यो नास्तीत्यर्थः । अत्र "चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्ता जिज्ञासु रर्थार्थी ज्ञानी च भरतर्षभ ॥" इत्युक्ताश्चतुर्विधाधिकारिण उच्यन्ते । साधूनां जिज्ञासूनाम्, कैवल्यकामानामित्यर्थः । आपन्नानाम् अपूर्वैश्वर्यकामानाम् आर्तानां श्रष्टैश्वर्यकामानाम् । यशसः "ज्ञानी त्वात्मैव मे मतम् " इत्युक्तयशोयुक्तस्य । एकवचनेन तस्य सुदुर्लभत्वमुक्तम् । एकभाजनम् अद्विती याश्रयः । यद्वा साधूनामुपासकानाम् । आपन्नानां "सकृदेव प्रपन्नाय" इत्युक्तरीत्या ईषत्प्रपन्नानाम् । आर्तानाम् आर्तप्रपन्नानाम् । “आतों वा यदि वा दृप्तः परेषां शरणागतः" इति वक्ष्यमाणत्वात् । यशसश्चैकभाजनमित्यनेन एवंभूतोऽन्यो नास्तीत्युच्यते ।। आश्रित फलप्रदानोपयोगिज्ञानसम्पत्तिमाह-ज्ञान विज्ञानसम्पन्न इति । ज्ञानं लौकिकज्ञानम्, विज्ञानं शास्त्रजन्यज्ञानम् ताभ्यां सम्पन्नः । यद्वा विज्ञानेन धर्मभूतेन सम्पन्नः । ज्ञानश्वासौ विज्ञानसम्पन्न श्वेति कर्मधारयः । ज्ञानस्वरूपो ज्ञानगुणकश्चेत्यर्थः । ज्ञानसम्पत्तिमुक्त्वाऽनुष्ठानसम्पत्तिमाह निदेशे निरतः पितुरिति । प्रधानत्वात्पितृवचनपरिपाल नत्वमुक्तम् । इदमुपलक्षणं धर्मान्तराणाम् । अनेन सौलभ्यं चोक्तम् । समस्त कल्याणगुणसमृद्धिमाह गुणानामाकर इति । बहुवचनेनासङ्घयेयत्वमुक्तम् । आकर इत्यनेन गुणातिरिक्तत्वं गुणिन उक्तम् । महानित्यनेन गुणानामप्युत्कर्षावहं गुणिस्वरूपमुच्यते । धातूनामित्यनेन गुणानां ज्ञानशक्तिबलैश्वर्यादि भेदेन नानाविधत्वमुक्तम् । शैलेन्द्रो हिमवान् । अनेनाप्रकम्प्यत्वमुक्तम् ॥ १८-२० ॥ रामानु० - "स्वरक्षणेप्यशक्तस्थ को हेतुः पररक्षणे" इति न्यायेन राज्यादिना शितो रामः सुग्रीवं कथं रक्षितुं शक्तः ? शक्तो वा सदृशं मां विहाय दुर्बलं सुग्रीवं कथमवलम्बत इत्याशङ्कायामाह तव भ्रातुरित्यादिना । आतांनां नष्टैश्वर्यकामानाम् । ज्ञानविज्ञानसम्पन्नः । ज्ञानं ब्रह्मविषयकं ज्ञानम् विज्ञानं शिल्पशास्त्रयोर्ज्ञानम् । "मोक्षे पीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः" इत्यमरः । यदा ज्ञानं सामान्यज्ञानम् विज्ञानं विशेषज्ञानम् ॥ १८-२० ॥ ननि०- निवासवृक्षः साधूनाम् । साधूनां संसारतापततानां निवासवृक्षः विश्रामस्थानम् । “वासुदेवतरुच्छाया नातिशीता न धर्मदा" इत्युक्तत्वात्। साधूनां "साधवस्त्वभि गन्तव्याः" इत्युक्त्या अभिगन्तव्यतया ये प्रसिद्धास्तेषामावासवृक्षः अभिगन्तव्यस्थानम् । साधूनां ज्ञानिवाम् आवासवृक्षः प्राप्यदेश इति च। आपन्नानाम् आकिञ्चन्यात् सङ्गपुरस्कारेण शरणं गतानां हमानां सदा गतिः अपुनरावृत्तिमाप्पस्थानम् । अभ्युपगमप्रारब्धसहिष्णुतया देहस्थितिकालेपि गतिरिति च । आर्तानां प्रारब्धदेहेनार्दितानां Acharya Shri Kailassagarsun Gyanmandir For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy