________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टी.कि.कॉ.
चा.रा.भू. वालिनो विशेषोस्ति । सत्यम्; तस्मिन् दिने तन्न धृत्वा गतवानिति ज्ञेयम् । यद्यप्यत्र मत्तत्वभोगचिह्नाश्रान्तत्व पुरनिर्गतत्वादिकं वाल्यसाधारणमस्ति । समीपस्था हनुमदादयश्च प्रष्टुं शक्याः स्वयं च सूक्ष्मज्ञः, 'प्रेक्षितज्ञास्तु कोसला' इत्युक्तेः । तथापि ' त्वया मया च कुन्त्या च ' इति न्यायेन स० १२ साधारण्यं परिहर्तु दृष्टहेतून कांश्विदुक्तवान् राम इति ज्ञेयम् ॥ ३२-३६ ॥ तस्मादिति । मा मा शङ्कीरिति, मा मां प्रति मा शङ्कीः शङ्कां मा
॥३८॥
त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया । मौढ्यं चमम बाल्यं च ख्यापितं स्याद्धरीश्वर ॥ ३४ ॥ दत्ताभयवधो नाम पातकं महदुच्यते ॥ ३५ ॥ अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी । त्वदधीना वयं सर्वे वनेऽस्मिन् शरण भवान् ॥ ३६ ॥ तस्माद्यद्धयस्व भूयस्त्वं मा मा शङ्कीश्च वानर । एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे । निरस्त मिषुणैकेन वेष्टमानं महीतले ॥३७॥ अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर । येन त्वामभिजानीयां द्वन्द्वयुद्धमुपा गतम् ॥ ३८ ॥ गजपुष्पीमिमां फुल्लामुत्पाटय शुभलक्षणाम् । कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥ ३९ ॥ ततो गिरितटे जातामुत्पाट्य कुसुमाकुलाम् । लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ॥ ४० ॥ स तया शुशुभे श्रीमान् लतया कण्ठसक्तया । विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ ४१ ॥
Acharya Shri Kalassagarsuri Gyanmandir
कुरु । व्यत्ययेन परस्मैपदम् ॥ ३७ ॥ अभिज्ञानं चिह्नम् ॥ ३८ ॥ गजपुष्पी नागपुष्पी नाम लताम् ॥ ३९ ॥ व्यसर्जयत् अमोचयत् बद्धवान् ॥ ४० ॥ स तयेत्यादि । विपरीत इवेत्याद्युपरि विन्रीयते ॥ ४१ ॥
लक्षणम् || २३ || अविमृश्यकरणे न केवलं मूलघात एव, किन्तु महानर्थप्रातिः स्पादित्याह मौढधं चेत्यादिना ॥ ३४-३८ ॥ गजपुष्पी नागपुष्पीसंज्ञां लताम्, कुन्दलतां वा उत्पादष शुमदारुजाम् इति ॥३८॥ स०- विपरीत इति । विपरीते रात्री " विपरीतं तु शर्वरी " इत्यभिधानात् । सूर्यः शकामध्यगतश्चन्द्रः । " शकामध्यगतश्चन्द्रः सूर्य इत्यभिधीयते " इत्युक्तेः । नक्षत्रमाल्या विपरीतः अभूतदृष्टान्त इति वा ॥ ४१ ॥
दवायमपि शुशुम इति
For Private And Personal Use Only