SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ॥३३॥ वा.रा.भू. ॐ वीरपानं कृतमिति मन्यताम् । वीरपानं नाम युद्धोपक्रमे उत्साहवर्धनाय वीरैः क्रियमाणं पानम् ॥३८॥ उत्क्षिप्य अंसयोरुपरि विन्यस्य । एतत्काञ्चनमाला ॐ धारणकाले यः पुरो युद्धायागच्छति तस्य बलं सर्वे तवैव भविष्यतीति महेन्द्रेण दत्तामित्यर्थः । व्यवतिष्ठत व्यवातिष्ठत ॥ ३९॥ आविध्यत अभ्रामयत् ॥ ४० ॥ व्यापातयाञ्चके भूमौ पातयामास । अथ पात्यतः पात्यमानस्य श्रोत्राभ्यां रक्तं सुस्राव । श्रोत्रमूलविषाणपीडनादिति भावः ॥ ४१ ॥ क्रोधसंरम्भात् क्रोध तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत् ॥ ३९ ॥ विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् | आविध्यत तदा वाली विनदन कपिकुञ्जरः ॥ ४० ॥ वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम् । श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥ ४१ ॥ तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः । युद्धं समभवद्द्घोरं दुन्दुभेर्वानरस्य च ॥ ४२ ॥ अयुध्यत तदा वाली शक्रतुल्यपराक्रमः । मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ॥ ४३ ॥ परस्परं नतोस्तत्र वानरासुरयोस्तदा । आसीददसुरो युद्धे शव ॥ ४४ ॥ व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः । तं तु दुन्दुभिमुत्पाट्य धरण्यामभ्यपातयत् ॥ ४५ ॥ युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस्तदा । पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥ ४६ ॥ तं तोलयित्वा बाहुभ्यां गतसत्त्व मचेतनम् । चिक्षेप बलवान् वाली वेगेनैकेन योजनम् ॥ ४७ ॥ तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥ ४८ ॥ | वेगात् ॥ ४२ ॥ ४३ ॥ परस्परमिति । प्रतोः सतोः ॥ ४४ ॥ ४५ ॥ प्राणहरे तस्मिन् युद्धे निष्पिष्टो दुन्दुभिः । पञ्चत्वं भूतानां पृथग्भावम्, मरणमिति यावत् । आगतः प्राप्तः । पपात ।। ४६ ।। तोलयित्वा चालयित्वा । एकेन वेगेन एकप्रयत्नेन ॥ ४७ ॥ वेगप्रविद्धस्य वेगेन क्षिप्तस्य ॥ ४८ ॥ विचार्यताम् । वीरपानं नाम, युद्धोपक्रमे उत्साहवर्द्धनार्थं वीरैः क्रियमाणं पानम् ॥ ३८ ॥ तमिति । उत्क्षिप्प अंसयोरुपरि विन्यस्य । युद्धसौकर्यार्थम् ॥ ३९॥४०॥ पात्यतः पात्यमानस्य । टी० - व्यापातयाञ्चके हन्तुमनाश्चिक्षेपेत्यर्थः । स्रोतोम्यः इन्द्रियेभ्यः । श्रश्राभ्यामिति वा पाठः ॥ ४१-४३ ॥ आसीदत् क्षीणवलोऽभूत् ॥ ४४-४६ ॥ तमिति । एकेन For Private And Personal Use Only टी.कि.कां. स० ११ ॥३३॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy