SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir सायः संपूर्णः। स कालः संवत्सरः । ममापि संवत्सरो गत इत्यर्थः ॥१५॥ अहं तं नष्टं ज्ञात्वा साग्रसंवत्सरमदृष्टं बुद्धा स्नेहादागतसम्भ्रमोऽभवम् । प्रातरं । चन पश्यामि नापश्यम् । ततः मे मनः। पापाशङ्कि तन्मरणाशङ्कि जातम् ॥१६॥ रक्त रक्तवर्णम् ॥१७॥१८॥ चिह्नः मरणकालिकस्वरैः ॥१९॥ तत्त्वं । अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः ।भ्रातरं नच पश्यामि पापाशति च मे मनः ॥ १६ ॥ अथ दीर्घस्य कालस्य बिलात्तस्मादिनिस्मृतम् । सफेनं सुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ १७॥ नर्दतामसुराणां च ध्वनिमें श्रोत्रमागतः। निरस्तस्य च सङ्ग्रामे कोशतो निस्वनो गुरोः ॥ १८॥ अहं त्ववगतो बुद्धया चिद्वैस्तैतिरं हतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया। शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ॥ १९॥ गृहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् । ततोहं तैः समागम्य सम्मतैरभिषेचितः ॥२०॥राज्यं प्रशासत स्तस्य न्यायतो मम राघव । आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ॥ २१॥ अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः । मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥ २२॥ निग्रहेपि समर्थस्य तं पापं प्रति राघव । न प्रावर्तत मे बुद्धिमा॑तुर्गोरवयन्त्रिता ॥२३॥ यथार्थम् । वालिमरणं गूहमानस्य प्रच्छादयतः। मे मत्तः। यत्नतः बहुयत्नेन । स्वविषयशापादिना श्रुतमासीत् ॥२०-२२॥ पापम् अज्ञानकृतमिति अहं नष्प ज्ञात्वा पूर्वोक्तसामसंवत्सरमदृष्ट्वा स्नेहादागतसम्भ्रमस्सन तं भ्रातरं न पश्यामि ततो मे मनश्च पापाशति मरणशक्ति जातमित्यर्थः ॥ १६॥ रक्तम् अरुणम ॥ ॥ १७ ॥१८॥ गिरिमात्रया पर्वतप्रमाणया ॥ १९ ॥ तत्त्वं वालिमरणम् ॥ २०-२४ ॥ नियमान रतस्यचेति पाठः । समामे रतस्य निरतस्य । कोशतोपि गुरोः स्खनो न श्रोत्रमागत इत्यनुकर्षः॥१८॥ स-अहम अवगतः । कर्तरि कः । ज्ञातवान् । गिरिमात्रया गिरिप्रमाणया । यद्यपि "टिड्ढाणञ्" इत्यादिना टापोपवादकेन लीपा भवितव्यम् । तथाप्यात्वाकाए । यद्वा नाय मात्र प्रत्ययः । किन्तु “ मात्रा परिच्छेदे " इत्यमरोक्तेः परिमाणवाची मात्राशब्दः । अतो न पूर्वोक्तदोषः ॥१९॥ मे मम निग्रहे समर्थस्यापि वालिनः तं पापं मां प्रति तादृशी बुद्धिर्न प्रावर्तत । तत्र हेतुः भ्रातृगौरवेत्यादि । प्राता ज्येष्ठनाताई किं कनिष्ठभ्रातृबन्धनेनेति वावृगौरवयन्त्रिता सती न प्रावर्तत । एतेन मुग्रीवस्य वालिनिग्रहे सामर्थ्याभावात् कथं निपहे च समर्थस्येति वचन मिति शङ्का परास्ता ॥ २३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy