________________
Shri Maharan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
सत्यविक्रमः । तव शत्रुनिरसनदक्ष इति भावः । एवं वाक्यभेदेन योजना अर्थरामशब्दयोः पुनरुक्तिपरिहारार्या ॥ २ ॥ निगदितः प्रसिद्धः ॥३॥ तस्येत्यादि ॥४-८॥ स कृत्वेति । राघवम्, प्राप्येति शेषः ॥९-११॥ रामानु०-हनुमद्वचनश्रवणानन्तरं सुग्रीवस्य मानुषरूपपरिग्रहाभिधानात् हनूमान् रामलक्ष्मणी स्थलान्तरे निवेश्य तदा
इक्ष्वाकूणां कुले जातोरामो दशरथात्मजः। धर्मे निगदितश्चैव पितुर्निर्देशपारगः ॥ ३ ॥ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वां शरणमागतः ॥४॥ राजसूयाश्वमेधैश्च वहियेनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ॥५॥ तपसा सत्यवाक्येन वसुधा येन पालिता। स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः॥६॥ भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ । प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ ॥७॥ श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः। भयं च राघवाद्घोरं प्रजहौ विगतज्वरः॥८॥स कृत्वा मानुष रूपं सुग्रीवः प्लवगर्षभः । दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ९ ॥ भवान् धर्मविनीतश्च विक्रान्तः सर्व वत्सलः । आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ १० ॥ तन्मयैवैष सत्कारी लाभश्चैवोत्तमः प्रभो । यत्त्व मिच्छसि सौहार्द वानरेण मया सह ॥११॥ रोचते यदि वा सख्यं बाहुरेष प्रसारितः। गृह्यता पाणिना पाणिर्मर्यादा
बध्यतां ध्रुवा ॥ १२ ॥ एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् । स प्रहृष्टमना हस्तं पीडयामास पाणिना ॥१३॥ गमनं सुग्रीवाय न्यवेदयदित्यवगम्यते ॥ ९-११ ॥ रोचत इति । मर्यादा व्यवस्था ॥ १२ ॥ रामानु०-मर्यादा अनुल्लकनीया व्यवस्था ॥ १२ ॥ एतत्त्विति । राम इति सम्माप्ता, अर्थ रामः सत्यविक्रमः, तब शत्रुनिरसनक्षम इति भावः । एवं वाक्यभेदेन योजना तु अयंरामशब्दयोः पुनरुक्तिपरिहारार्था ॥ २-६ ॥ भवतेति । प्रतिगृह्य प्रत्युद्गम्य ॥ ७॥ ८॥ स कृत्वेति । हनुमद्वचनश्रवणानन्तरमेव सुप्रीवस्य मानुषरूपपरिग्रहाभिधानात हनुमान रामलक्ष्मणौ स्थलान्तरे निवेश्य तयो रागमनं सुग्रीवाय निवेदितवानित्यवगम्यते ॥९॥ टी-भवानिति । विनीतः शिक्षितः ॥ १० ॥ वानरेण-तिरवा, असमानेनेत्यर्थः । एवंविधेनापि मपा सरूपमिच्छसि चेत् करावलम्बः | क्रियतामित्याह-रोचत इति । मर्यादा हि अनुलसनीषा व्यवस्था ॥ ११ ॥ १२ ॥ १३ ॥
स०-धर्मे धर्मविषये । राम एवेति निगदितः लोकः ॥ ति-धर्मे स्वसत्यपारपालनरूपधर्मनिनितम् । निगदितः प्रेरितः । पित्रेति शेषः ॥ १॥
।
For Private And Personal Use Only