SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir चेत् । अत्यद्भुतवस्तुदर्शनस आतातिविस्मयः सन् अङ्गीकृतं भिक्षुरूपं विस्मृत्य " अवशाः प्रतिपेदिरे " इतिवत् प्रणनामेति न विरोधः । यद्वा हनुमान् " रूपमेवास्यैतन्महिमानं व्याचष्टे इति न्यायेन दर्शनमात्रेणैतौ सुग्रीवविरोधिनिरसनदक्षमहिमानाविति निश्चित्य परिगृहीतवेषान्तरस्य स्वस्य चारत्वं प्रकटयितुं नमस्कारं कृतवानिति दोषः । अत एव ह्युत्तरत्र तयोः प्रत्युत्तरकथनात्पूर्वमेव सुग्रीवस्वरूपं स्वस्य स्वस्वरूपं सुग्रीवसचिवत्वं भिक्षुरूपप्रतिच्छन्नत्वं सुग्रीवस्य रामसख्याभिलावं च कथितवान् । वस्तुतस्तु त्रिदण्डादिवाह्यवेषधारणमात्रेण आपादमूले रोमनिचितस्य सवालस्य वानररूपस्य प्रतिच्छन्नत्वायोगान्मानुषशरीरपरिग्रहपूर्वकमेव बाह्यस्य कस्यचिदेवस्य धारणं वक्तव्यम् । अत एव हि कपिरूपं परित्यज्येत्युपक्रान्तम् । तत्र हनुमतः स्वरूपेण वटुत्वेपि मानुषरूपेण बटुत्वमेवात्र प्रकरणे भिक्षुशब्देनोच्यत इति न यतेर्गृहस्यवन्दनापत्तिरिति । आवभाषे अभिमुखीचकार ॥ ३ ॥ सम्पूज्येति । कामतः भक्तया । पूर्वोक्तप्रशंसा भक्तिकृता, नतु केवलपरीक्षाकृतेति भावः ॥ ४ ॥ रामानु०-उवाचेति । कामतः सुग्रीवोपदेशाविरुद्धस्वेच्छातः ॥ ४ ॥ राजर्षीत्यादिश्लोक सम्पूज्य विधिवद्वीरो हनुमान मारुतात्मजः । उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ ॥ ४ ॥ राजर्षिदेवप्रतिम तापसौ संशितव्रतौ । देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥५॥ त्रासयन्तौ मृगगणानन्यश्च वनचारिणः । पम्पा तीररुहान वृक्षान वीक्षमाणौ समन्ततः ॥ ६ ॥ इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ । धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ॥७॥ निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः । सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ॥ ८ ॥ द्वयम् । मृगगणान् अन्यान् वनचारिणश्च त्रासयन्तौ समन्ततः पम्पातीररुहान् वृक्षान वीक्षमाणौ च भवन्तौ वरवर्णिनो स्निग्धरूपवन्तौ । कर्मधारयादपि " मत्वर्थीयो दृष्टचरः । अत एव राजर्षिदेवप्रतिमौ । संशितव्रतौ तीक्ष्णत्रतौ । अत एव तापसौ तपस्विवेषौ भूत्वा इमं दुर्गमं देशं कथं प्राप्तौ ॥ ५-६ ॥ ॐ रामानु० वरवर्णिनीं वर्णिनी प्रशस्तवर्णी, वरौ च तौ वर्णिनी चेति विग्रहः । पम्पातीररुहान् वृक्षान् वीक्षमाणी समन्ततः इत्यन्तस्य भवन्तौ कथं प्राप्तावित्यनेन सम्बन्धः ॥ ५ ॥ ६ ॥ इमामित्यादिसार्धश्लोकत्रयमेकान्वयम् । पम्पायाः सरस्त्वेपि स्वल्पतया पूर्वापरप्रवाहवत्त्वेन नदीत्वमविरुद्धम् । शोभयन्तौ स्वतेजसेति शेषः । सुव र्णाभौ रामस्य श्यामत्वेपि लक्ष्मणस्य पीतवर्णत्वाच्छत्रिन्यायात् सुवर्णकान्तित्वम् । निःश्वसन्तौ वनसञ्चारायासात् । वरभुजौ सुन्दरभुजौ । हस्ति हस्तेत्यनेन दैर्घ्यपीवरत्वयोर्वक्ष्यमाणत्वात् । इमाः प्रजाः पक्षिमृगादीन् । पीडयन्तौ अपूर्वदर्शनेन विद्रावकावित्यर्थः । सिंहस्येव विप्रेक्षितं वीक्षणं न विरोधः । आवभाषे अभिमुखीचकार ॥ ३ ॥ कामतः सुग्रीवोपदेशाद्विरुद्धस्वेच्छातः ॥ ४ ॥ देशं कथमित्यादिसार्धश्लोकमेकं वाक्यम् । समन्ततो वीक्षमाणों कथं प्राप्ताविति सम्बन्धः ॥ ५ ॥ ६ ॥ इमां नदीमित्यारभ्य द्युतिमन्तौ नरर्षभावित्यन्तमेकम् । पम्पासरसो नदीत्वव्यपदेशस्तु आयामवत्तया । चापे गृहीत्वे For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy