________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्मितेन हास्यान्तरेण आगन्तुकहास्येन च युक्तम् । गुणवत् स्ववचनापेक्षया उत्कर्षवत् । मधुरं हितं प्रियहितम् । अतुलम्। “प्रियवादि च भूतानाम्” इत्युक्तरामवचनमप्यस्य न सदृशमित्यर्थः । संसारादुत्तीर्णस्य चेतनस्य "एतत्साम गायन्नास्ते" इत्युक्तसामध्वनिं कदा श्रोष्यामीति व्यञ्जयति ॥११३॥ स्वयं दुःखं प्राप्य स्थितापि स्वदुःखमप्रकाशयन्ती हर्षे भावयन्ती । साधु मन्मथार्तिनिवर्तकं वचनमभ्यभाषत । पूर्वमिति शेषः । अनादिकालं मम
प्राप्य दुःखं वने श्यामा सा मां मन्मथकर्शितम् । नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ॥ ११२ ॥ किन्नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज । क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम् ॥ ११३ ॥ गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सल्यू । नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥ ११४ ॥ [ इति रामस्तु विलपन् हतनौरिव सागरे । न ददर्श तदा पारं शोकस्य पुरुषर्षभ ॥ ] इति रामं महात्मानं विलपन्तमनाथवत् । उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥ ११५ ॥ संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम । नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥ ११६ ॥
योग्यो जीव इत्यर्थः ॥ ११२ ॥ सा स्तुपा क्व कथं कीदृक्प्रकारेति पृच्छन्तीं कौसल्यां किं वक्ष्यामि । अतिमनस्विनीमित्यनेन यथार्थ वक्ष्यामि चेत्तदानीमेव वात्सल्यातिशयान्नश्येदित्युच्यते ॥ ११३ ॥ किमत्र युक्तं तत्राह - गच्छेति । ऋते विना ॥ ११४ ॥ रामानु०- न ह्यहं जीवितुं शक्तस्तामृते जनका त्मजामित्यस्यानन्तरम् इति रामस्तु विलपन्नित्यादयः केचन श्लोकाः कतिपयकोशेषु दृश्यन्ते । ते बहुकोशेश्वदृष्टत्वाद्वाल्मीकिपाकाप्रतीतेश्च तैर्विना कथासङ्गत्युपपत्तेश्च न व्याख्याताः।। ११४।। इतीति । अव्ययं युक्तिभिरविनाश्यम् ॥ ११५ ॥ संस्तम्भ संस्तम्भस्व, धैर्यमवलम्बस्वेत्यर्थः । अकलुषात्मनां संधैर्यहृदयानाम् । ईदृशानां त्वादृशानाम् । अवसर:, यथावसरं तदुक्तमित्यर्थः । गुणवत् उपचारवत् ॥ १११ ॥ टीका-प्राप्येति । श्यामासम्पूर्णयौवना, उपभोगयोग्येति यावत् । मन्मथकशितं मन्मथपीडितम् अल्यकालविलम्बमप्यसहमान मित्यर्थः । तथापि नष्टदुःखेव सा मनोनुकूलं यथा भवति तथा । अभ्यभाषत अभिमुखी ॥ ११२ ॥ किं विति । सा स्नुषा कुत्र वर्तते कथं च किंप्रकारेति च पृच्छन्तीं कौसल्यां किन्नु वक्ष्यामि यथावृत्तं वक्ष्यामि अन्यद्वक्ष्यामि वा । उभयमपि वक्तुं न शक्यमिति भावः । टी०-इदं मदीयं दुःखं तावदास्ताम्, वनवासानन्तरं गतेन मया बन्धुविषयप्रश्रपि दुरुतर इत्याहकिन्विति ॥ ११३ ॥ ११४ ॥ इति राममिति । अव्ययम् युक्तिभिः खण्डितुमशक्यम् ॥ ११५ ॥ ११६ ॥
For Private And Personal Use Only
टी.कि.कां. स० १
॥१०॥